________________ 284 "दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिशिका / अगतिविधुरैर्लक्ष्मी दृष्ट्वा चिरस्य सहोषितां यदि किल परैरेकीभूतैर्गुणैस्त्वमुपाश्रितः / इति गुणजितं लोकं मत्वा नरेन्द्र ! मुरायसे वदतु गुणवान् बुद्धयादीनां गुणः कतमस्तव // 10 // अगतिविधुरैरिति / 'चिरस्य' इत्यस्य स्थाने 'चिरं नु' इति पाठो युक्तः / "यदि अगतिविधुरैः, परैरेकीभूतैर्गुणैः चिरं नु सहोषितां लक्ष्मी दृष्ट्वा त्वमुपाश्रितः, किल, हे नरेन्द्र ! गुणजितं लोकं मत्वा सुरायसे तव बुद्धयादीनां कतमो गुण इति गुणवान् वदतु" इत्यन्वयः / यदीति सम्भावनायां, अगतिविधुरैः गत्यभावप्रयुक्तकार्पण्यशालिभिः, परैर्लक्ष्मी व्यतिरिक्तैः, एकीभूतैः समुदितैः, गुणैः, चिरं चिरकालं, नु इति वितर्के, सहोषितां तेन सार्धमेकत्र भगवति स्थितां, लक्ष्मी श्रियं दृष्ट्वा वयं न गलितमन्त इति अत्रैव स्थिताः इयं तु चञ्चला प्रतिक्षणं गतिमति एकं स्थानं परित्यज्य स्थानान्तरगमनशीला एवमपि न स्थानान्तरं गच्छतोति परिभावनपुरस्सरमवलोक्य, त्वं भवान् , उपाश्रितः आधारभूतः कृतः, किलेति सम्भाव्यते, हे नरेन्द्र ! हे राजराजेश्वर ! गुणजितं स्वगुणवशीभूतं स्वाज्ञाकारिणं, यो यस्याज्ञाकारी स तद्गुणजितमुच्यते, लोकं त्रिभुवनजनं, मत्वा ज्ञात्वा, सुरायसे स्वात्मानं देवदेवं मन्यसे, तव भवतः, बुद्धयादीनां ज्ञानादीनां गुणानां मध्ये, कतमो गुणः किं प्रकारकः किं नामधेयः किम्फलकः किं स्वरूपो गुणः, इति एतत्प्रश्नप्रतिविधानं यथा त्वदीयविशिष्टगुणज्ञानमस्मदादीनां स्यात् तथा, गुणवान् विशिष्टगुणवान् , नागुणवान् परकीयगुणं यथार्थतयाऽनव. गच्छन् वक्तुं समर्थः, वदतु कथयतु, त्वद्गुणसदृशगुणवान् त्वद्गुणं वक्तुं सदृशो नान्यः, स च सर्वज्ञ एवेति सर्वज्ञश्च भदानेव स्वगुणकथने समर्थ इत्याशयः // 20 // भवदाज्ञाकारिणः सर्वेऽपि नरेन्द्रा इति भवानेव राजराजेश्वरः इति भगवदाज्ञागुणं स्तौतिगन्धद्विपो मधुकरानिव पङ्कजेभ्यो दानेन यो रिपुगणान् हरसि प्रवीरान् /