SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिशिका / 283 उरसि स्थितां लक्ष्मीमस्य स्तौतिअन्येऽप्यस्मिन् नरपतिकुले पार्थिवा भूतपूर्वा स्तैरप्येवं प्रणतसुमुखैरुद्धृता राजवंशाः / न त्वेवं तैर्गुरुपरिभवः स्पृष्टपूर्वो यथायं श्रीस्ते राजन्नुरसि रमते सत्यभामासपत्नी // 9 // अन्येऽप्यस्मिन्निति। "अस्मिन् नरपति कुलेऽन्येऽपि पार्थिवा भूतपूर्वाः, एवं प्रगतसुमुखैस्तैरपि राजवंशा उद्धृताः, तु तैरेवं गुरुपरिभवो न स्पृष्टपूर्वः, यथाऽयं, हे राजन् ! सत्यभामासपत्नीः श्रीः ते उरसि रमते" इत्यन्वयः / अस्मिन् वर्तमानतया सर्वजनप्रत्यक्षप्रसिद्धे, नरपतिकुले नृपकुले, अन्येऽपि भवतो . भिन्नाऽपि, पार्थिवा नृपतयः, भूतपूर्वाः पूर्वं भूता भूतपूर्वा पूर्व समुत्पन्नाः, एवं यथा भवान् प्रणतसुमुखस्तथा, प्रणतसुमुखैः तैरपि प्रशतान् प्रति प्रसन्नवदनैः प्रगतोपकारकारिभिः, राजवंशाः नृश्वंशाः, उद्धृता दुःखसागरादुत्तारिताः, तु पुनः, तैः नरपतिकुलोत्पन्नपार्थिवैः, एवं अनन्तराभिधीयमानस्वरूपगुरुपरिभवसदृशः, गुरुपरिभवः महान् परिभवः, न नैषः, स्पृष्टपूर्वः पूर्व स्पृष्टः स्पृष्टपूर्वः पूर्वं त्वया प्रत्यक्षविषयीकृतः, यथा येन प्रकारेण, अयं अनन्तरमेवाभिधीयमानो हृदयोपरि बलादाक्रमणलक्षणः, हे राजन् हे राजराज ! सत्यभामासपत्नी विष्णोरत्यन्तवल्लभाया : सत्यभामेति संज्ञितायाः स्त्रियः सपत्नी समानपतिका विष्णोद्वितीया स्त्री, श्रीः लक्ष्मीः, ते तव. उरसि हृदये, रमते आनन्दक्रीडां करोति, अन्यपुरुषाङ्गनायाः हृदयोपरि क्रीडनं महान् परिभव एवेति, वस्तुतः सत्यस्य पारमार्थिकस्यानन्त . धर्मात्मकवस्तुनो या भा प्रकाशः केवलज्ञानादिलक्षणस्तस्या या भा आनन्दादिस्वरूपा लक्ष्मोः तत्स पत्नी तत्समानपति का लक्ष्मीः कान्तिः तस्याः क्रीडनं भगवतो हृदयेन परिभव इति हृदयम् // 9 // भगवन्तं सर्वेऽपि प्रकृष्टा गुणा एकीभूयोपाश्रयन्तीति स्तौति
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy