SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 282 दिवाकरकृता किरणावलीकलिता एकादशो द्वात्रिंशिका / दीनां स्वर्गाधिपादीमां, लालनीया परिपालनीया, ते तव, गुणाः सम्यग्दर्शनज्ञान चरित्रादयोऽनन्यसदृशाः, गुणपरितुलनादुविनीताः अन्यगुणोपमासहिष्णवः इत्यर्थः // 7 // भगवद्गुणानां स्व सजातीयान्यगतगुणासदृशत्वमाभिधातुकामेन भगवत्कीर्तेरन्यकीय॑सदृशत्वमुपदर्शयतिअन्येषां पार्थिवानां भ्रमति दश दिशः कीर्तिरिन्दुप्रभावात् / त्वत्कीर्तेर्नास्ति शक्तिः पदमपि चलितुं किं भयात् सौकुमार्यात् / आ ज्ञातं नैतदेवं श्रुतिपथचकिता तेन गच्छंत्यजत्रं कीर्तिस्तेषां नृपाणां तव तु नरपते ! नास्ति कीर्तेरयातम् // 8 // अन्येषामिति / 'इन्दुप्रभावात्' इत्यस्य स्थाने 'इन्दुप्रभावत्' इति पाठो युक्तः / “इन्दुप्रभावत् अन्येषां पार्थिवानां कीर्तिः दश दिशः भ्रमति, किं भयात् सौकुमार्यात् त्वत्कीर्तेः पदमपि चलितुं शक्ति स्ति, आ ज्ञातं एतत् एवं न, श्रुतिपथ चकिता तेषां नृ गणां कीतिः तेनाजस्रं गच्छति, तु हे नरपते ! तव कीर्तरयातं नास्ति' इत्यन्वयः / इन्दुप्रभावत् चन्द्रम': प्रभा यथा दश दिशो भ्रमति तथा, अन्येषां पार्थिवानां त्वद्भिन्नानां राज्ञाम् , कोति यशः, दशदिशो भ्रमति सर्वदिग्भ्रमणं करोति, किं भयात् भौतितः, अथवा सौकुमार्यात् अतिशयितसुकुमारभावात् , त्वत्कीर्तः तव कीत्तः, पदमपि पदपारमित देशमपि चलितुं गन्तुं, नास्ति शक्तिः न विद्यते सामर्थम्, आ इति स्मृतौ, ज्ञातं एतत्कारणमवगतं मया, एतत् त्वत्कर्टशदिक्षु भ्रमणं, एवं न, भयसौ कुमार्यप्रयुक्तसामर्थ्य भावनिबन्धनं, किन्तु श्रुतिपथचकिता चतुःपथस्वगतिप्रतिबन्धकारणावलोकनव्यग्रचित्ता, तेषां नृपाणाम, अन्येषां राज्ञाम, कीतिर्यशः, तेन श्रुतिपथचकितत्वहेतुना, अजस्त्रम् अनवरतं, गच्छति भ्रमति, तु पुनः, हे नरपते हे राजराज ! तव कीर्तः तव यशसः, अयातं अगतं, नास्ति सर्वदिग्गतायास्तस्या गन्तव्यदेशाभावान्न भ्रमणमित्यर्थः / / 8 / /
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy