________________ दिवाकर कृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 281 दीयते तत्सत्त्वोत्पादनाश्रयः क्रियते, निरनुनयमतेः अनुनयमतिरहितस्य, अस्य ईदृशलक्ष्मीप्रदानकर्तः राज्ञः, मर्याप कीर्तिस्वरूपेऽपि स्वसम्बन्धिनि, एष प्रसङ्गः स्वसत्त्वनिवृत्तिपूर्वकपरसत्त्वोत्पादनात्मकदानलक्षणः प्रसङ्गः, मा भूत् मा भवतु, अतः अस्मात् कारणात्, ते तव, अप्रमेया मातुमशक्या, कीत्तिः तेन उक्तहेतुना, विनयचकिता नु त्वत्स्वभावभूतविनयचकिता किं, नुशब्दस्यान्योस्प्रेक्षार्थकत्वात् , 'न विनयचकिता' इत्यस्य स्थाने 'नु विनयचकिता' इति पाठो युक्तः / तथासत्येवोत्प्रेक्षाधिगतिः सागरानपि समुद्रानपि, अतीता उल्लङ्घय गता चतुर्णा समुद्राणां पारेऽपि भवतः कीर्तिरित्यर्थः // 6 // लक्ष्मीप्राप्तिनिमित्तानां गुणानां स्तवनमावश्यकमित्याशयेन गुणान् स्तौतिअवश्यं कर्तव्यः श्रियमभिलषता पक्षपातो गुणेषु . प्रसन्नायां तस्यां कथमिव च न ते लालनीया भवेयुः / किमेषां वृत्तान्तं न वहसि नृपते : लालनीया त्वदाज्ञा महेन्द्रादीनां यद्गुणपरितुलनादुविनीता गुणास्ते // 7 // अवश्यं कर्तव्य इति / “श्रियमभिलषता गुणेषु पक्षपातोऽवश्यं कर्तव्यः तस्यां प्रसन्नायां कथमिव च ते लालनीया न भवेयुः, हे नृपते ! एवं वृत्तान्तं किं न वहसि, यत् त्वदाज्ञा महेन्द्रादीनां लालनीया, ते गुणा गुणपरितुलनादुर्विनीता' इत्यन्वयः / श्रियं लक्ष्मी, अभिलषता कामयता जनेन,गुणेषु पुरुषगुणेषु, पक्षपातः यस्य कस्यचिदपि पुरुषस्य यः कश्चिदपि गुणः श्लाघनीयः इत्येवं गुणग्रहणाग्रहः, अवश्यं नियमेन, कर्तव्यः कत्तुं योग्यः, तस्यां लक्ष्म्यां, प्रसन्नायां प्रसादाभिमुखायां सत्यां, चकारः पादपूरणे, कथमिवेत्यत्रेवशब्दः कथमित्यस्यैवार्थपरिपोषकः केन कारणेनेति तदर्थः, ते गुणाः, लालनीयाः सेवनोयाः प्रशंसनीया वा, न भवेयुः सर्वथा लालनीया एव गुणाः, हे नृपते ! राजराज ! महावीर ! एषां गुणानां, वृत्तान्तं सज्जनकामनाविषयत्वश्लाघनीयत्वादिकं, किं न वहसि काक्वावहस्येव, यत् यस्मात् कारणात् , त्वदाज्ञा इदमेव करणीयमनेनैव नियमेन भवितव्यं स्याद्वाद एव स्वीकरणीय इति भवदादेशस्वरूपा, महेन्द्रा.