________________ 28. दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / पात्रतामावष्करोति, भवान् स्वार्थाम्भपटुः स्वार्थस्य स्वाभीष्टस्य, आरम्भ उत्पादे पटुः समर्थः, परार्थविमुखः स्वभिन्नजनाभीष्टोत्पादानुगुणप्रयत्नविकल:, लज्जानपेक्षः एवं करणे हसिष्यन्ति मां सज्जना इति तथाविधसमुद्भूतलज्जापेक्षारहितो निर्लज्ज इति यावत्, भगवतः स्वार्थरम्भपटुत्वादिकमेवावेदयति यः, यः भवान् , अन्यक्लेशसमर्जितान्यपि अनल्पकष्टसाध्यप्रयत्नसमुद्भवान्यपि काम-क्रोधाभिनिवेशात्मक्लेशजनितान्यपि वा, यशांसि, लक्ष्मीपथा धनप्राप्तिमार्गेण, उत्सार्य दूरीकृत्य, नेयं सतो कीर्तिः किन्तु धनोपार्जनोपायोऽयमिति धनसमृद्धिकामैरेवेयमुपास्यान्यान्यरित्येवं परित्यज्येति यावत्, कीत्यैकार्णव. वर्षिणापि या कीर्तिसमुद्रमेव वर्षति तेनापि, यशसा, अद्यापि बहुकालमारभ्य वर्तमानकालपर्यन्तं, न संतृप्यसे न संतृप्तो भवसि, अतः कीर्तिप्रपञ्चविस्तारियशोऽतृप्तत्वेन स्वार्थारम्भपटुत्वं परेष्टसंपादकलक्ष्मीप्राप्तिफलकयशो. ऽपसारकत्वेन परार्थविमुखत्वं, तत एव निर्लजत्वं च व्यञ्जितं भवतीति // 5 // राजराजभगवत्कीर्तिः समुद्रपारं गता तस्याः समुद्रपारगमने हेतुमुत्प्रेक्ष्य दर्शयतिचाटुपीतेन मुक्ता यदियमगणिता दीयते राजलक्ष्मी रन्योऽन्येभ्यो नृपेभ्यस्त्वदुरसि नृपते ! याऽपि विश्रम्भलीना। मा भूदेष प्रसङ्गो निरनुनयम तेरस्य मय्यप्यतस्ते कीर्तिस्तेनाप्रमेया न विनयचकिता सागरानप्यतीता // 6 // चाटुप्रीतेनेति / " हे नृपते ! याऽपि त्वदुरसि विश्रम्भलीनाऽगणितेयं राजलक्ष्मीः चाटुप्रीतेन मुक्ताऽन्योऽन्येभ्यो नृपेभ्यो यद्दीयते, निरनुनयमतेरस्य मय्यपि एष प्रसङ्गो मा भूत् अतस्तेऽप्रमेया कीर्तिः तेन विनयचकिता नु सागरान. प्यतीता'' इत्यन्वयः / हे नृपते ! राजराजभगवन्, याऽपि त्वदुरसि त्वद्धृदये, विश्रम्भलीना विश्रम्भेन सर्वथा भयरहितत्वेन लीना अन्यदृष्ट्यगोचरतयाऽवस्थिता, अगणिता परार्द्धपर्यन्तगणनयाऽपि गणयितुमशक्या, इयं सर्वजनमान्या, राजलक्ष्मीः , चाटुप्रीतेन मधुरोक्तिप्रसन्नेन भवता, मुक्ता स्वसत्त्वपरित्यागविषयीकृता, अन्योऽन्येभ्यो नृपेभ्यः विभिन्नभ्यो नृपतिभ्यः, यत् यस्मात् ,