________________ दिवाकर कृता किरणावलीकलिता एकादशी द्वात्रिंशिका। 279 सत्यमिति / "पुरुषस्य गुणेषु सतां मनोरथोऽपि श्लाघ्यः ननु यथा व्यसनं तथैतत् सत्यम्, यत्पश्यतः समुदितैः ‘अवलो' इत्यस्य 'अबला' इति 'अचला' इति वा पाठो युक्तः / अबला अचला वा कीर्तिः समुदितैः तथा व्युपास्ता यथा श्रुतिमुखानि वनानि याता” इत्यन्वयः। पुरुषस्य आत्मनः, गुणेषु ज्ञानादिषु, सतां सज्जनानां, मनोरथोऽपि अप्ययं गुणः स्यादिति कामनाऽपि, श्लाघ्यः श्लाघनीयः, ननु निश्चितं, यथा व्यसनं येन प्रकारेण द्यूतादिषु तदेकनिरतानां व्यसनं, तथा तद्वत् , एतत् सज्जनानां पुरुषस्य गुणेषु मनोरथैकघटनम् एतत् , सत्यं यथार्थम् , यत् यस्मात्, पश्यतः अवलोकयतो भवतः, अबला पौरुषबलरहिता अचला सुस्थिरा वा, कीत्तिः भवतः कीत्तिः, समुदितैः एकत्र त्वयि मिलितैर्गुणैः पुरुषगुणस्पृहयालुभिः सज्जनैर्वा, तथा तेन प्रकारेण, व्युपास्ता प्रक्षिप्ता, श्रुतिमुखानि चतुर्मुखानि, वनानि याता चतुर्दिगन्तरेषु गता, अथवाऽऽगमप्रमुखानि साधारणजनागम्यत्वादरण्यकल्पानि शास्त्रणि गताः सर्वागमेषु भवदुपदिष्टपदार्थघटनारूपेण व्यवस्थिता भवत्कीर्तिरित्यर्थः // 4 // राजशेखरस्य व्याजस्तुतिमुपदर्शयतिएतद् भो बृहदुच्यते हसतु मा कामं जनो दक्षिणः स्वार्थारम्भपटुः परार्थविमुखो लज्जानपक्षो भवान् / योऽन्यक्लेशसमजितान्यपि यशांस्युत्सार्य लक्ष्मीपथा कीत्येकार्णववर्षिणाऽपि यशसा नाद्यापि संतृप्यसे // 5 // एतद् भो इति / “भो एतद् बृहदुच्यते दक्षिणो जनः कामं मा हसतु भवान् स्वार्थारम्भपटुः परार्थविमुखः लज्जानपेक्षः यः अन्यक्लेशसमर्जितानि यशांसि लक्ष्मीपथा उत्सार्य कीत्य कार्णववर्षिणाऽपि यशसा अद्यापि न संतृप्यसे" इत्यन्वयः / भो हे राजाधिराज भगवन् , एतत् अनन्तरमभिधीयमानम्, बृहत् अनाकाङक्षितत्वादधिकम् , उच्यते अभिधीयते, दक्षिणो जनः त्वदनुकूलो जनः, कामं मा हसतु स्वेच्छानुसारेण नैव तवोपहासं करोतु, नोपहासपात्रमहमत एव नोपहसति न तु दाक्षिण्येनेति भगवत्प्रतिविधानमुत्प्रेक्ष्य तस्योपहास