________________ 278 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / जनो नेत्थं तव कीर्ति वक्तुं समर्थ इति स्तुतिकारस्य भगवद्भक्त्युदेकोऽभिव्यज्यते, इति एवं विज्ञायतामित्यर्थः // 2 // भगवत्कीति विशिष्योपवर्णयतिएका दिशं व्रजति यद् गतिमद गतं च तत्रस्थमेव च विभाति दिगन्तरेषु / यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते // 3 // एकां दिशमिति ! “यद्गतिमत् एकां दिशं व्रजति, तत्रस्थमेव गतं च दिगन्तरेषु विभाति, दशदिगन्तविभक्तमूर्ति यातं ते यशः कथं वक्तुं युज्येत, उत वा न गतम्" इत्यन्वयः / यत् यस्मात्, गतिमद गतिक्रियाव द्वस्तु, एका दिशं व्रजति प्राच्यादिदशदिक्षु मध्यादन्यतमां नियतां दिशं गच्छति, तत्रस्थमेव गतं च तद्दिगवच्छिन्नदेशस्थितमेव, गतिमत् पुनः, दिगन्तरेषु दिगन्तरावस्थितजनेषु, विभाति प्रकाशते, दिगन्तरावस्थिता अपि जना नियतदिगवस्थितत्वेनैव तद्गतिमद्वस्त्ववगच्छन्तीति यावत् , दशदिगन्तविभक्तिमूर्ति दशसु दिगन्तेषु विभक्ता मूर्तिर्यस्य तद्दशदिगन्तविभक्तमूर्ति, यातं गतं, ते तव, यशः, कथं केन प्रकारेण, वक्तुं आख्यातुं, युज्येत घटेत, न कथञ्चित् तथा ववतुं घटते, उत वा अथवा, न गतं तव यशो दशदिक्षु न गतनित्येवमपि वक्तुं न कथञ्चिदपि घटत इति दशदिव्यापिनों तव कति केनापि प्रकारेण वर्णयितुं न युज्यत इत्यर्थः // 3 // पूर्वावस्थायां प्रजा परिपालयतो भगवतो गुणग्रामद्वारा कीर्तिमुवर्णयतिसत्यं गुणेषु पुरुषस्य मनोरथोऽपि श्लाघ्यः सतां ननु यथा व्यसनं तथैतत् / यत् पश्यतः समुदितैरवलो व्युपास्ता कीर्तिस्तथा श्रुतिमुखानि वनानि याता // 4 //