SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 277 कुर्वता विदधता; परं केवलम्, गुरवः विनयस्मृतिकरणावश्यकत्वोपदेष्टारः, व्यसिताः तदुपदिष्टाकरणेनापमानिता अवहेलिता इति प्रथमं निन्दा प्रतीयते, ततश्चानन्यपुरुषोत्तमस्य भगवतः परमगुरोर्गुरुरेव नास्ति नवा तत्समानस्तद्विशिष्टो वा पुरुषः समस्ति यं प्रति विनयो यस्य स्मरणं वाऽवश्यकर्त्तव्यं भगवतो भवेत् तदवासने वा गुरुवो व्यंसिताः स्युर्नवा परमगुरोर्भगवतः केऽपि गुरवः ये व्यंसिताः स्युः कीर्तिश्च भगवतः स्वयमेव सर्वान् प्रति सर्वजन्त्ववगम्यमानोपदेशवचनेन सर्वजनहितावहेन संजातेति अनन्यकर्तकत्वात् तत्कतकत्वेनोपर्यत इत्येवं स्तुतिर्गम्यतेइत्यर्थः // 1 // तव कीर्ति ख्यापयितुमहमेव प्रगल्भ इत्याशयवान् स्तुतिकारः कीर्तिस्वरूपप्रविष्टान् विषयानुपदर्शयतिश्रीराश्रितेषु विनयाभ्युदयः सुतेषु बुद्धिर्नयेषु रिपुवासगृहेषु तेजः / वक्तुं यथाऽयमुदितप्रतिभो जनस्ते . कीर्ति तथा वदतु तावदिहेति कश्चित् // 2 // . श्रीराश्रितेविति / "आश्रितेषु श्रीः, सुतेषु विनयाभ्युदयः, नयेषु बुद्धिः, रिपुवासगृहेषु तेजः, वक्तुं अयं जनो यथा उदितप्रतिभः तथा ते तावत् कीर्ति कश्चिदिह वदतु इति" इत्यन्वयः / हे वीर ! आश्रितेषु भवदुपासकेषु, श्रीः पुत्र-कलत्र धन-धान्यसमृद्धिः भवतीत्याहृतक्रियान्वयः सर्वत्र, सुतेषु भवच्छिष्यप्रशिष्यपरम्पर।सु, विनयाभ्युदयः सर्वप्रकारेण विनयप्रादुर्भावः, नयेषु दानदण्डादिराजनीतिषु संग्रहादिनयेषु च, भवदुपदिष्टमार्गस्थितत्वेन भवदाज्ञानुल्लविनां जनानाम्, बुद्धिविनिश्चयः, रिपुवासगृहेषु भवदाज्ञाबाह्यजनावासस्थानेषु, तेजः प्रभावः, इति सर्व भवत्कीर्तिसंगतविषयसमष्टिं, वक्तुं गदितुं, अयं जनः सिद्धसेनदिवाकरा. भिधानः स्तुतिकारः, यथा येन प्रकारेण, उदितप्रतिभः उदयशालिनवनवोन्मेषशालिबुद्धिमान्, तथा तेन प्रकारेण, ते तव, तावदिति वाक्यालङ्कारे, कीति यशः, कश्चित् कोऽपि जनः, इह जगति, वदतु कथयतु, न मद्भिन्नः कश्चिदपि
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy