________________ गुणवचनाभिधाना एकादशी द्वात्रिंशिका / मार्गे नूततर्कविच्छलतरे व्याख्यापदारोपणं हासायैव भवेऽत्र तु ततः सत्तत्त्वप्राप्तिर्वरा / जानान्नित्थमपीह भक्तिभर तो लावण्यसूरिः प्रभोः व्याख्यायामुदितोद्यमः स्तुतिगिरां हास्यो न विद्यावताम् // 1 // त्रिभुवनराजराजस्य भगवतो महावीरस्य निन्दाव्याजेन स्तुतिं करोतिसमानपुरुषस्य तावदपवादयन् कीदृशः किमेव तु महात्मनामपरतन्त्रधीचक्षुषाम् / अपास्य विनय-स्मृती भुवि यशः स्वयं कुर्वता त्वयाऽतिगुणवत्सलेन गुरवः परं व्यंसिता // 1 // समानपुरुषस्येति / "तावत् समानपुरुषस्यापवादयन् कीदृशः ? अपरतन्त्रधीचक्षुषां महात्मनां किमेव तु, अतिगुणवत्सलेन त्वया भुवि विनयस्मृती अपास्य स्वयं यशः कुर्वता परं गुरवः व्यंसिताः' इत्यन्वयः / तावदिति वाक्यालङ्कारे, समानपुरुषस्य साचारणरथ्यापुरुषादिजनस्य स्वसदृशगुणशालिपुरुषस्य वा, अपवादयन् विनयस्मृती अत्रापि सम्बध्यते, समानपुरुषस्य विनयस्मृत्यादि परिहरन्नित्यर्थः, कीदृशः न केनापि सत्पुरुषेण सहोपमामर्हतीति अगणनीयः, अपरतन्त्रधीचक्षुषां अन्यानधीनज्ञाननयनानाम् , महात्मनां कपिलादिमुनीनाम् विनयस्मृत्याद्यपवादयन् जनोऽगणनीय इत्यत्र किमु वक्तव्यम्, भवत्वेवं ततो मयि क आक्षेप इति भगवता स्पृष्ट इवाह-अतिगुणवत्सलेन अत्यन्तगुणप्रियेण, त्वया महावीरेण, भुवि जगत्यां, विनय-स्मृती स्वगुरून् प्रति विनयं नम्रोभवनं आप्तपरम्पराणां स्मरणं च, अपास्य न कमपि. प्रति विनयं नवा कस्यचित् स्मरणं भगवता कृतं केवलं जैनागमनमस्करणमेव विहितम् इति युक्तं विनयस्मृती अपास्येति, स्वयं अन्यानपेक्षयैव, यशः त्रिभुवनव्यापिनी कीर्ति,