________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका 275 *mmmmmmmmmmmmmm वशात् कल्पनाज्ञानबलाद् , भिन्ने भवकाले, यथाभूते ते ततोऽन्ये मुक्तिकाले वस्तुस्थित्याऽऽत्मभिन्ने एव ते इत्यर्थः // 33 / / उपसंहरतिजिनोपदेशदिङ्मात्रमितीदमुपदर्शितम् / / यदवेत्य स्मृतिमतां विस्तरार्थों भविष्यति // 34 // जिनोपदेशदिङमात्रमिति / जिनोपदेशदिङ्मात्रं जिनोपदिष्टस्याद्वादागममहार्णवैकदेशमात्रं, इदम् अनन्तरोपवर्णितम्, उपदर्शितम् प्रकाशितम् , इति समाप्ती, यदवेत्य यदवगम्य, स्मृतिमतां धारणाविशेषशालिनाम् , विस्तरार्थः विस्तृतार्थावगमनं विषयेण विर्षायण उपदर्शनम् , भविष्यति उत्पत्स्यते // 34 // स्याद्वादार्थकलीना जिनमतगमनोद्देशबोध प्रवीणा __ नव्या श्रीवीरवाचा स्तुतिरियमुदिता सिद्धसेनेन गूढा / व्याख्या लावण्यसूरेरिह बुधसुगमा जैनराद्धान्तश्रद्धा विद्योतकप्रगल्भा भवतु मतिमतां दृष्टिमार्गप्रचारा // 1 // इति दशम्या द्वात्रिंशिकाया व्याख्या समाप्ता //