________________ 274 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / जगस्थितिवशादायुस्तुल्यवेद्यादपि त्रयम् / करोत्यात्मसमुद्घाताद् योगशान्तिरतः परम् // 31 // जगदिति / जगस्थितिवशात् भवस्थितिवशात्, आयुस्तुल्यवेद्यादपि 'आयुस्तुल्यवेद्यमपि' इति पाठः / त्रयम् आयुःकर्मव्यतिरिक्ताघातिकर्मत्रयं, आत्मसमुद्घात् आत्मनो जीवस्य समुद्घातक्रियालक्षणव्यापारात् आयुस्तुल्यवेद्यं आयुः कर्मभोगसमकालीनभोगवद्, करोति, अतःपरं समुद्घातात् परं, योगशान्तिः कार्यकादियोगशान्तिरित्यर्थः // 32 // ___तदानीमात्मा स्वस्वरूपावस्थितो भवति, स च यथा व्यपदिश्यते तथा भावयति सर्वप्रपञ्चोपरतः शिवोऽनन्त्यपरायणः। सद्भावमात्रप्रज्ञप्तिनिरूपाख्योऽथ निर्वृतः // 32 // सर्वप्रपञ्चोपरत इति / सर्वप्रपञ्चोपरतः काम-क्रोधाद्यान्तरिकपुत्रकलनधनादिबाह्यौपाधिकसर्वसम्बन्धिरहितः, शिवः अखण्डानन्दस्वरूपः / 'अनन्त्यपरायण' इत्यस्य स्थाने अनन्यपरायण' इति पाठो युक्तः / अनन्यपरायणः तस्य स्वव्यतिरिक्तकर्माद्यनधीन इत्यर्थः, सद्भावमात्रप्राप्तिनिरूपाख्यः सद्भावमात्रेण प्रज्ञप्त्या सर्वोपाख्यारहितः, अथ अथ च. निर्वृतः निर्वृतिमान् मुक्त इत्यर्थः // 32 // तदानीं ध्यानविचेष्टिते तस्य दर्शयतिप्रदीपध्यानवद् ध्यानं चेतनावद् विचेष्टितम् / ते विकल्पवशाद् भिन्ने भव-निर्वाणवर्त्मनि // 33 // प्रदीपध्यानवदिति / प्रदीपध्यानवद् ध्यानं निवातस्थितदीपवदखण्डप्रकाशस्वरूपोऽयमात्मेत्येवं तस्य ध्यानम् , चेतनावद्विधेष्टितम् यथाज्ञानं स्वसंविदितं तथाऽऽत्माऽयं स्वसंविदितज्ञानस्वरूपः स्वसंविदितं ज्ञानमेव तस्य चेष्टा, भव-निर्वाणवर्त्मनि संसारमार्गे मोक्षमार्गे च, ते ध्यानविचेष्टिते, विकल्प