________________ 273 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / सूक्ष्मेण.काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे / भवति ततोऽसौ सूक्ष्मक्रियस्तदाकृतिगतयोगः // 15 / / तमपि स योगं सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतम् / ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् // 16 // ध्याने दृढापिते परमात्मनि ननु निष्क्रियो भवति कायः / प्राणापाननिमेषोन्मेषवियुक्तो मृतस्येव // 17 // ध्यानार्पितोपयोगस्यापि न वाङ्मनसक्रिये यस्मात् / अन्तर्वर्तित्वादुपरमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् // 18 // सततं तेन ध्यानेन निरुद्ध सुक्ष्मकाययोगेऽपि / निष्क्रिय देशो भवति स्थितोऽपि देहे विगतलेश्यः // 19 // तुर्यध्यानेयोगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बन्धः / ध्यानार्पणसंहारात् किञ्चिच्च ससंहतायवाः॥२०॥ लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन / इत्युक्तो विज्ञेयो बन्धनिरोधश्च हि तथैव // 22 // " इति // 29 // चक्षुर्व विषयाख्यातिरवधिज्ञान-केवले / शेषवृत्तिविशेषात् तु ते मते ज्ञान-दर्शने // 30 // चक्षुर्वदिति / चक्षुर्वत् चाक्षुषज्ञानवत, विषयाख्यातिः विषयस्य . प्रकाशनं, अवधिज्ञान-केवले अवधिज्ञानं केवलज्ञानं च, शेषवृत्तिविशेषात् तु अन्यज्ञानवैलक्षण्यात् पुनः, ते अवधि-केवले, ज्ञानदर्शने अवधिज्ञानमवधिदर्शनं च तथा केवलज्ञानं केवलदर्शनं च, मते सम्मते, अवधिज्ञानावरणावधिदर्शनावरणक्षयाज्जायमानेऽशेषविशेषविषयकाशेषसामान्यविषयके केवलज्ञान-केवलदर्शने स्याद्वाद्यभ्युपगते इत्यर्थः // 30 // . . ज्ञानावरणादिघातिकर्मचतुष्टयक्षयानन्तरं केवलज्ञानमुत्पद्यते ततश्चात्मसमुदुधाततो योगशान्तिर्भवतीत्याह. 18