________________ दिवाकरकृता किरमावलीकलिता एकादशी द्वाविंशिका / 299 दृश्यं अयं, महेश्वरो महादेवः, त्रिभुवनेश्वरः त्रिजगत्स्वामी, भवेद् वा अथवा, अच्युतः विष्णुः भवेदित्येवं, संशयः उभयकोटिकमनिर्णयात्मकं झानं, भवेदपि सम्भवेदपीत्यर्थः // 27 // सर्वव्यापि त्वद्यशः किं स्वरूपमिति निर्गतुं न पार्यत इत्याहगुणो नाम द्रव्यं भवति गुणतश्च प्रभवति गुणापेक्षं कर्माऽप्यनुशयमारम्भविषयम् / विभु स्यात् किं द्रव्यं गुणजमुत वान्यः पदविधि दिशो दिपर्यन्तं तव किमिति शक्यं गमयितुम् // 28 // गुणो नामेति / अत्रान्वयः यथाश्रुतानुसार्येवेति / नामेति कोमलामन्त्रणे, भगवन्तं मनसा सम्मुखीकृत्य मलय च कथयति-गुणो द्रव्यं भवति, गुण-गुणिनोरभेदाद् गुणो द्रव्यमेव द्रव्यव्यतिरिक्तं, अथवा द्रव्यं धनं तद् यस्य लोके स एव गुणवानुच्यते न दरिद्र इति गुणो द्रव्यं भवति, यत्रैव गुणस्तत्रैव धनादिकं द्रव्यं नागुणिनीति गुणवतश्च प्रभवति गुणाद् द्रव्यं समुत्पद्यत इति, अथवा गुणाद् गुणश्च समुत्पद्यते, नैयायिकप्रक्रियानिर्णये तु गुणो नाम द्रव्ये भवति इति पाठ आश्रयणीयः, तत्र च समवायिकारणे द्रव्ये गुणो भवतीत्यर्थः, गुणतश्च प्रभवति द्रव्याणि दव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् इति वैशेषिकसूत्रादवयवगुणेभ्योऽवयविगुणः समुत्पद्यते इति सरलोऽर्थः, गुणापेक्ष गुणनिमित्तं, कर्मापि हस्तशर संयोगादिना बाणादौ कर्म भवतीति, यथा गुणो गुणापेक्षस्तथा कर्म गुणापेक्षमित्यपिना प्रतिपाद्यते, अनुशय पश्चात्तापं यथा तथा, आरम्भ विषयम् यथा द्रव्यस्य द्रव्यारम्भकत्वं गुगस्य गुण जनकत्वमित्येवं द्रव्य-गुणयोरसजातीयजनकत्वं, न तथा कर्मणः, कर्म कर्म साध्यं न विद्यते इति वचनात् , कर्मणो यत् कर्म नोत्पद्यते तेन विषयम् , यदर्थमयं विवेकस्तदुपर्शयति-विभु सर्वव्यापकम् , स्यात् भवेत् , किं गुणजे द्रव्यं किं गुगादुत्पन्नं दव्यं भवेत्, उत वा अथवा, अन्यः पदविधिः अन्यप्रकारः शब्दसन्निवेशः, हे भगवन्