________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / 271 निद्राप्रचले द्विचरमसमये तस्य क्षयं समुपयातः। चरमान्ते क्षीयन्ते शेषाणि तु धातिकर्माणि // 9 / / आवरणचरमसमये तस्य दयाभावितात्ननो भवति / जीवैस्ततं जगत् पश्यतो हि भावक्षयोपशमः / / 10 // शटितप्रायं हि तदाऽऽवरणं परमावधिश्च भवति तदा / अथ कात्स्यात् तत्पतनाद् द्वितीयसमये क्षयायेति // 11 // तस्य हि तस्मिन् समये केवलमुत्पद्यते गततमस्का / ज्ञानं च दर्शन चाऽऽवरणद्वयसंक्षयाच्छुद्धम् / / 12 / / चित्रं चित्रपटनिभं त्रिकालसहित ततः सलोकमिमम् / पश्यति युगपत् सर्व सालोकं सर्वभावज्ञम् // 13 // वीय निरन्तरायं भवत्यनन्तं तथैव तस्य तदा / कल्पातीतस्य महात्मनोऽन्तरायक्षयः कात्यात् // 14 // सततो वेदयमानो विहरति चत्वारि शेषकर्माणि / आयुष्यस्य समाप्तिर्यावत् स्याद् वेद्यमानस्य // 15 // " इति शुक्लध्यानस्य पृथक्त्ववितकैकत्ववित। पूर्वविदो भवतः / तस्यैव च सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवति इति द्वे ध्याने केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः / तत्रैक आह-- "अप्रतिपाति ध्यायन् कश्चित् सूक्ष्मक्रियविहृन्यन्ते / आयुःसमीक्रियार्थं त्रयस्य गच्छेत् समुद्घातम् / / 16 / / आर्द्राम्बराशुशोषवदात्मविसारणविशुष्कसमकर्मा / समयाष्टकेन देहे स्थित्वा योगात् क्रमाद् द्वन्द्वे // 17 // तथा अन्य आहआयुषि समाप्यमाने शेषाणां कर्मणां यदि समाप्तिः / न स्यात् स्थितिवैषम्यात् गच्छति स ततः समुद्घातम् // 18 // स्थित्या च वन्धनेन समीक्रिया) हि कर्मणां तेषाम् / अन्तर्मुहूर्तशेषे तदायुषि समुज्जिघांसति सः // 19 //