________________ 270 दिवाकरकृता किरणावलो दशमी द्वात्रिशिका / अनन्तैश्वर्यसामर्थात् प्रपद्यते, न च शुक्लध्यानार्थमारम्भणचारः किन्तु केवलोदीरणव्यये सतीत्यन्वयः // 28 / शुक्लध्यानं यथा कैवल्यकारणं भवति तथोपदर्शयति तत् क्षीयमाणं क्षीणं तु चरमाभ्युदयेक्षणे / - कैवल्यकारणं पङ्ककललाम्बुप्रसादवत् // 29 // तदिति। तत् क्षीयमाणं तत् शुक्लध्यानं, क्षीयमाणं क्रमेण क्षीयमाणं सत् , चरमाभ्युदयक्षणे चरमाभ्युदयकाले, क्षीणं तु विनष्टं पुनः, कैवल्यकारणं केवलज्ञानोत्पत्तिकारणम् , तत्र निदर्शनम्-पङ्ककललाम्बुप्रसादवत् पङ्कमिश्रजलस्य क्रमेण पङ्कापगमनानन्तरं सर्वथा पापगमे यथा प्रसादो भवति तथेत्यर्थः / अत्रेदमवगन्तव्यम् , एतद्विधये इमानि पद्यानि "क्षंणकषायस्थानं तत् प्राप्य ततो विशुद्धलेश्यः सन् / एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति / / 1 / / एकार्थाश्रयमिष्टं योगेन केनचित् तदेकेन। . ध्यानं समाप्यते यत् कालोऽल्पोऽन्तर्मुहूर्त्तश्च / / 2 / / श्रुतमुच्यते वितर्कः पूर्वाभिहितार्थनिश्चितमतेश्च / ध्यानं तदिष्यते येन तन्न सवितर्कमिष्टं तत् // 3 // अर्थव्यञ्जनयोगानां संक्रान्तिरुदितो हि विचारः / तदभावात् तद् ध्यानं प्रोक्तमविचारमहद्भिः // 4 // व्युत्सर्गविवेकात संमोहाव्ययलिङ्गमिष्यते शुक्लम् / न च सम्भवन्ति कात्स्न्येन तानि लिङ्गानि मोहवतः // 5 // व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः / प्रीत्यप्रीतिविरहितं ध्यायस्तदुपेक्षकः प्रसन्नम् सः // 6 // प्राप्नोति परं ह्रादं हिमातपाभ्यामिव विमुक्तम् / तेन ध्यानेन यथाख्यातेन च संयमेन घातयति // 7 // शेषाणि घातिकर्माणि युगपदपरञ्जनानि ततः / . कात्यान्मस्तकशूच्यां यथा हतायां हतो भवति तालः / कर्माणि क्षीयन्ते तथैव मोहे हते कात्ात् // 8 //