________________ दिवाकर कृता किरणवलीकलिता दशमी द्वात्रिंशिका / 260 सूक्ष्मकायक्रियारुद्धसूक्ष्मवाङ्-मनसक्रियः / यद् ध्यायति तदप्युक्तं सूक्ष्ममप्रतिपाति च / / 12 / / कायिकी च यदेषाऽपि सूक्ष्मो परमति क्रिया / अनिवति तदप्युक्तं ध्यानं व्युपरतक्रियम् / / 13 / " पृथक्त्ववितकत्ववितत्मिकशुक्लध्यानयोरालम्बनप्रतिपादकं सूत्रमिदम्-'एकाश्रये सवितर्के पूर्वे' 9-42 // ' अत्र भाष्यम्-“एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथम द्वितीये, तत्र सविचारं प्रथम, अविचारं द्वितोयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति / " अत्र टीका- 'एक आश्रय आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्व विदारभ्ये मतिगर्भश्रुतप्रधान व्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति 'वितर्कः श्रुतम्' वक्ष्यति इति, सह वितर्केण सवितक, पूर्वगतश्रुतानुसारिणीत्यर्थः, पूर्व च पूर्वं च पूर्वे ध्याने, एतदेव निश्चिनोति-प्रथमद्वितीये इति, पृथक्त्ववितर्कमेकत्ववितर्कं च, तत्र तयोः, यत् प्रथमम् - आद्यं पृथक्त्व वितर्कमेकत्ववितकं च तत् सविचार सह विचारेण सविचारं सह सङ्क्रान्त्येति यावद् वक्ष्यति / “विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः” / कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ? अविचारद्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचार मिति। वितर्कविचारयोर्विशेषा. वगतये वितर्कः श्रुम्' 9-45" “विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः // 946 // " इति क्रमेण सूत्रद्वयं इति // 27 // शुक्लध्याने विशेषमुपदर्शयतिनेहारभणचारोऽस्ति केवलोदीरण-व्यये / अनन्तैश्वर्यसामर्थ्यात् स्वयं योगी प्रपद्यते // 28 // नेहेति / इह शुवलध्याने, आरभणचारः अभिनवकर्मादानव्यापारः, नास्ति न विद्यते, किन्तु केवलोदीरणव्यये अत्र केवलोदीरणव्यये इति यत्पूर्ववद्धकर्मणः केवलमुदीरणं उदयः व्ययो विनाशः, तौ, ते इत्यनेनान्वयः / अत्र हेतुः-अनन्तैश्वर्यसामर्थ्यात् अनन्तैश्वर्यशक्तिबलात् , स्वयं स्वयमेव, योगी योगयुक्तः, प्रपद्यते प्राप्नोति, अथवा तमःशेषक्षयात्मकं शुक्लध्यानं तु स्वयं योगी