________________ 268 दिवाकरकृता किरणावलीकलिता दशमो द्वात्रिशिका / गौरवभयान्नेहोपदयते / चतुर्विधतया शुक्लध्यानस्य प्ररूपकम् तत्त्वार्थसूत्रमिदम् / ' "पृथक्तवैकत्ववितर्क-सूक्ष्मक्रियाप्रतिपाति-व्युपरतक्रियानिवर्तीनि / 9-42 / " अत्र भाष्यम्-"पृथक्त्ववितकम् एकत्ववितर्क, सूक्ष्म क्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम्' अत्रेतास्यैव टीका-पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदानिति / चतुर्विधशुक्लध्यानस्य प्रतिपादकं सूत्रमिदम्- 'तत् त्र्यैककाययोगायोगानाम् / 9-43 / " अत्र भाष्यम्-'तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्घयं भवति, तत्र त्रियोगानां ,पृथक्त्ववितर्कं एकान्यतमकयोगानामेकत्ववितर्कम् , काययोगानां सूक्ष्म क्रयमप्रतिपाति अयोगानां व्युपरतक्रियानिवर्तीति / अत्र टीका-त देतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति, मनोवाकाययोगव्यापारवत इत्यर्थः / एकान्यतमयोगानामिति, अन्यतमैकयोगानामेकत्ववितर्कम् एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियतेकदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति, काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति, निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति, अयोगानामिति शैलेश्यवस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनोवाकाययोगत्रयरहितानां व्युपरतक्रियमनिवर्तिध्यानं भवति / उक्तं च “यदर्थव्यजने काय-वचसी च पृक्तवतः / मनः सङ्कमयत्यात्मा स विचारोऽभिधीयते // 8 // संक्रान्तिरर्थादर्थं यद् व्यञ्जनाद् व्यजनं तथा / योगाच्च योगमित्येष विचार इति वा मत: / / 9 / / अर्थादि च पृथक्तवेन यद् वितर्कयत ह च / ध्यानमुक्तं समासेन तत् पृथक्त्वविचारवत् / / 10 / / अविकल्प्यमनम्त्वेन योगसंक्रान्तिनिःस्पृहम् / तदेकत्वविताख्यं श्रुतज्ञानोपयोगवत् / 11 //