________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / 267. सकलनिशाकरमण्डलाकृतयो नवप्रैवेयकाणि पञ्चमहाविमानानि मुक्ताधिवासश्च, अधोलोकोऽपि भवनवासिदेवा नारकाधिवसतिः, धर्माधर्मावपि लोकाकारौ गतिस्थितिहेतू , आकाशमवगाहलक्षणं पुद्गलद्रव्यं शरीरादिकार्य, इत्थं संस्थानस्वाभाव्यान्वेषणार्थ स्मृतिसमन्वाहारो धर्मध्यानमुच्यते, पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्त्वावबोधाच्च क्रियानुष्ठानं, तदनुष्ठानान्मोक्षावाप्तिरिति / तदेतदप्रमत्तसंयतस्य भवति, धर्मध्यानं प्रमत्तसंयतावस्थानाद् विशुद्धयमानाध्यवसायोऽप्रमत्तस्थानमाप्नोति, यथोक्तम् "निर्माता एव तथा विशोधयोऽसङ्घयलोकमात्रास्ताः / तरतमयुक्ताया अधितिष्ठन् यतिरप्रमत्तः स्यात् // 2 // " अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुभवन्त्यणिमादयः, उक्तं हि __ "अवगाहते च सश्रतजलधिं प्राप्नोति चावधिज्ञानम् / मानसपर्यायं वा विज्ञानं वा कोष्ठादिबुद्धिर्वा // 3 // चारण-वैक्रिय-सौषधावद्यावापि लब्धयस्तस्य / / प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि // 4 // " अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरत-प्रमत्ताप्रमत्त संयतानामन्यतम उपशमश्रेण्याभिमुख्यात् उपशम यति, यथोक्तम् "क्षपयति तेन ध्यानेन ततोऽनन्तानुवन्धिनश्चतुरः / मिथ्यात्वं संमिश्रं सम्यक्तवं च क्रमेग ततः // 5 // क्षीयन्ते हि कषायाः प्रथम स्त्रिविधोऽपि दृष्टिमोहश्च / देशयतायतसम्य गूगप्रमत्त-प्रमत्तेषु // 6 // पाणिग्राहारीस्तान् निहत्य विगतस्पृहो विदीर्णभयः / प्रीति सुखमपक्षोभः प्राप्नोति समाधिम स्थानम् // 7 // "उपशान्त क्षीणकषाययोश्च' इत्यनेन सूत्रेण उपशान्त कषायस्य क्षीणकषा. यस्य च धर्मं ध्यानं भवतीत्यपि दर्शितम् , तत्तदन्यच्च विस्तरतष्टीकायामुपवर्णितं