________________ 266 दिवाकरकृता किरणावलीकलिता दशमो द्वात्रिंशिका / तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणराग-द्वेष मोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा वयन्ति भाषन्ते वा अनृत कारणाभावात्, अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वारोहः प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् / आयविचयं द्वितीयं धर्मध्यानमुच्यते-अपाया विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृति विभागार्पितजन्म-जरा-मरणार्णवभ्रमणपरिखे. दितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिगतिभिनिवृत्ताः / नरकादिगतिषु दीर्घरात्रमपाययुः ज्यन्ते, केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशषध-बन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यपायप्रायेऽस्मिन् संसारेऽन्यन्तोद्वे गाय स्मृतिसमान्वारोहतोऽपाय विचयं धर्मध्यानमाविर्भवति / तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः अनुभावः, अनुभावो रसानुभवः, कर्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः-अनुचिन्तन मार्गणं- तदपितचेताः / तत्रैव स्मृति समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति, ज्ञानारणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्यनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्य मध्यमोत्कृष्टस्थितिकं विविधविपाकम्-तद्यथा ज्ञाणावरणाद्दुर्मेधस्त्वं, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्रायुद्भवश्च, असद्वेद्याद् दुःखम् सद्वेद्यात् सुखानुभवः, मोहनीयाद् विपरीतग्राहिता, चारित्रविनिवृत्तिश्च, आयुषोऽनेकभव प्रादुर्भावः, नाम्नोऽशुभप्रशस्त देहादिनिवृत्तिः, गोत्रादुच्च-नीचकुलोपपत्तिः, अन्तरायादलाभ इति / इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहतो धयं भवति ध्यानमिति / संस्थानविचयं नाम चतुर्थ धर्मध्यानमुच्यते- संस्थानमाकारविशेषो लोकस्य द्रव्यागां च, लोकस्य तावत् तत्राधोमुखमलकसंस्थानं वर्गयत्ययोलोवम्, स्थालमिव च तियंगलोकमूर्ध्वमधोमल्लक समुद्गम् , तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः, असङखेया द्वीपसमुद्रा वलयाकृतयो धर्माधर्माकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसन्निवेशभाजो व्योमप्रतिष्ठाः क्षितिवलय द्वीपसागर-नरकविमानभवनादिसंस्थानानि च, तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तार मुपभोक्तारं च स्वकृतकर्मणः शरीराकारम् , मुक्तौ त्रिभागहीनाकारम् , अप्रलोको द्वादशकल्पा असकल