________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिशिका। 265 रूपार्थ-महदर्थ-सूक्ष्मार्था सम्यगवगतिः, यथासुखजयोपायं यथासुखं च तज्जयोपायं यथासुखजयोपायं सुखमनतिक्रम्य कषायादिजयोपायम् , जितं स्वाधीननम्, इति एतस्मात् कारणात् , जिनं जिनस्वरूपं, पायात् प्राप्नुयादित्यर्थः // 26 // उपसंहरतिइत्याश्रवनिरोधोऽयं कषायस्तम्भलक्षणः / तद्धय॑मस्माच्छुक्लं तु तमाशेषक्षयात्मकम् // 27 // इत्याश्रवेति / इत्याश्रवनिरोधोऽयमिति इति एवं, अयं संवरः आश्रवनिरोधः, कषायस्तम्भलक्षणः कषायाणां काम-क्रोधादीनां स्तम्भः स्थगनं तल्लक्षणः तत्स्वरूपः, तद्धयं तदेव धर्मध्यानम् , अस्मात् धर्मध्यानाद् अनन्तरम् , शुक्लं तु शुक्लध्यानं पुनः, तमाशेषक्षयात्मकम् अष्टविधकर्मसु अवशिष्टकर्मलक्षणान्धकारक्षयात्मकम् , अत्रेदमवसेयं ध्यानं चतुर्विधं आत-रौद्र-धर्म्यशुक्लभेदात् , तत्र आत्तध्याने रौद्रध्यानं च संसारहेतू पूर्व प्रसंगादुपवर्णिते, धर्य शुक्लं च मोक्षहेतू , तत्र धर्मध्यानलक्षणं 'आज्ञा-ऽाय-विपाक-संस्थान विचयाय धर्ममप्रमत्तसंयतस्य' इति तत्त्वार्थसूत्रम्, अत्र भाष्यम्-आज्ञाविचयाय अआयविचयाय 'विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वारोहो धर्मध्यानम् तदप्रमत्तसंयतस्य भवति, "किञ्चान्यत्' इति, एतत्स्फुटाधिगतये टीका समुल्लिख्यते-आज्ञादीनां कृत. द्वन्द्वानां विचयशब्देन सह षष्ठीसमासः, आज्ञादीनां विचयः पर्या लोचनम् , विचयशब्दः प्रत्येकमभिसंबध्यते, आज्ञापायविपाकसंस्थान विचयशब्दात्तादये चतुर्थी, धर्मशब्दो व्याख्यातः, अप्रमत्तसंयतस्येति स्वामिनिर्देशः, तत्राज्ञासर्वज्ञप्रणोत आगमः, तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महार्थो महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनाम् "इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी' इत्यादिनन्दीवचनात् , तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणानानत्वात् , यथोक्तम् "नहि नामानाभोगच्छद्मस्थस्येह कस्यचिन्नास्ति / ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म // 1 // '