________________ 264 दिवाकर कृता किरणावलोकलिता दशमी द्वात्रिंशिका / योगाङ्गप्राणायामफलमुपदर्शयतिप्राणायामो वपुश्चित्रजाड्यदोपविशोधनः / शक्त्युत्कृष्टकलत्कार्यः प्रायेणैश्वर्यसत्तमः // 24 // प्राणायाम इति / प्राणायामः हृदि स्थितस्य प्राणवायोः कियत्कालं नियम्य मू‘दाववस्थानं प्राणायामः, स च वपुश्चिनजाड्यदोषविशोधनः वपुषः शरीरस्य चित्रमनेकविधं जाड्यं जडत्वं तदात्मकं दोषस्य विशेषेण शुद्धिकारकः जाज्यदोषापहारक इति यावत् , ततः शक्त्युत्कृष्टकलत्कार्य: शक्त्या सामर्थ्येनोत्कृष्टमुत्कर्षशालिकरद्दीप्यत्कार्य जाडयद्रोषापगमनलक्षणं यस्य स शक्त्युत्कृष्ट कलत्कार्यः, प्रायेण सम्भावितावश्यम्भावेन, ऐश्वर्यसत्तमः अणिमालघिमाप्रभृत्यष्टविधैश्वर्यसत्तमः // 24 / / ततश्चक्रूरक्लिष्टवितर्कामानिमित्तामयकण्टकात् / उद्धरेद् गतिशब्दादि वपुः स्वाभाव्यदर्शनात् // 25 // क्रूरेति / क्रूर क्लिष्टवितर्कात्मानिमित्तामयकण्टकात् क्रूरः क्रौर्यशाली, क्लिष्टः क्लेशावहः, वितर्कः तदात्मकस्त द्रूपो योऽनिमित्तोऽसाधारणनिमित्त. रहित आमयः मनोगतदोषस्तदात्मककण्टकात् , वपुःस्वाभाव्यदर्शनात् प्राणायामकारिणः पुंसः वपुषः शरीरस्य यत्स्वाभाव्यं स्वाभाविकस्वरूपं तस्य दर्शनादवलोकनात् , गतिशब्दादि उद्धरेत् निरुक्तकण्टकरहितं गतिशब्दादिकं उद्धरेत् // 2 // एवं सति अनायासेन कषायजयाज्जिनस्वरूपमाप्नोति निरामयः पुमानित्याहचर-स्थिर-महत्-सूक्ष्मसंज्ञा-ज्ञानार्थ-संगतिः / यथासुखजयोपायमिति पायाज्जितं जिनम् // 26 // चरेति / चर-स्थिर-महत्-सूक्ष्मसंज्ञा ज्ञानार्थसंगतिः चरसंज्ञास्थिरसंज्ञा-महत्संज्ञा-सूक्ष्मसंज्ञा-चरज्ञान-स्थिरज्ञान महज्ज्ञान-सूक्ष्मज्ञान-चररूपार्थ-स्थिर