________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / 263 __न दोषदर्शनादिति / विषयात्मसु शब्दादिविषयस्वरूपेषु, दोषदर्शनात् दोषावलोकनात् , वैराग्य विरक्तत्वं, न शुद्धं शुद्धवैराग्यं तन्न भवति, किन्तु अयं मृदुप्रवृत्त्युपायः ऋजुप्रयत्नस्योपायः एतादृशवैराग्यवान् पुरुषोऽतितीव्रप्रयत्नशालीमो भवति शिथिलविषयप्रयत्नादरः न, परं उत्कृष्टं, हितं परमपुरुषार्थमोक्षसाधनं, तत्त्वज्ञानं केवलज्ञानमित्यर्थः / / 21 // कीदृशः पुरुषः तत्त्वज्ञानयोग्य इत्याकाक्षायामाहश्रद्धावान् विदितापायः परिक्रान्तपरीषहः / भव्यो गुरुभिरादिष्टो योगाचारमुपाचरेत् // 22 // श्रद्धावानिति / श्रद्धावान् जिनवचनादिविषयकरुचिमान् य जिनेनोक्तं तत् सर्व सत्यमित्याकारकरुचिमानिति यावत् , विदितापायः विदितो ज्ञातः अपायः मोक्षादिप्रतिबन्धको येन सः, एवम्भूतः पुमान् यथा मोक्षप्रतिबन्धकबन्धादिकम भिनवं न भवति तथा चेष्टते, परिक्रान्तपरीषहः परिक्रान्ताः सर्वप्रकारेण जिताः परीषहाः श्रुत्पिपासादयो द्वाविंशतिप्रकाराः परीषहा येन स परिक्रान्तपरीषहः, भव्यः मुक्तिगमनयोग्यतावच्छेदकानादिभव्यत्वपरिणामवान् , गुरुभिरादिष्टः आप्तेर्गुरुभिराज्ञप्तः सन् , योगाचारमुपाचरेत् अष्टाङ्गयोगस्याचरणं सम्यक् कुर्यात् // 22 // अध्यागयोगाचरणप्रकारमुपदर्शयति शुचौ निष्कण्टके देशे समप्राणवपुर्मनाः / स्वस्तिकाद्यासनजयं कुर्यादेकाग्रसिद्धये // 23 // शुचाविति / शुची गोमयाद्युपलेपनेन शुद्धिमति, निष्कण्टके कण्टकादिरहिते, देशे भूप्रदेशे, समप्राणवपुर्मनाः समानि प्राण-वपुर्मनांसि यस्य स प्रागवर्मनाः एवंभूतः सन् , स्वस्तिकाद्यासनजयं स्वस्ति प्रभृतीनि आसनानि स्वस्तिकाद्यासनानि स्वस्तिकाद्यासनानां जयं सम्यग् निरन्तराभ्यासेन स्वाधीनम्, एकाग्रसिद्धये मनसो वृत्त्यन्तरनिरोधेन यथैकविषयकवृत्त्युपपत्तये, कुर्यादित्यर्थः // 23 //