________________ 262 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / प्रतिपादयति, ततश्चैकान्तस्थिरस्वरूपमेकान्तविचलितस्वरूपं च परित्यक्तव्यं किन्तु तदुभयात्मक नेकान्तस्वरूपं प्रमाणगोचरचारि मन्तव्यमित्यैदम्पर्यम् // 17 // घृणाऽनुकम्पापारुष्यं काईण्यं परिशुद्धये / व्रतोपत्रतयुक्तस्तु स्मृतिस्थैर्योपपत्तये // 18 // घृणेति / घृणा दया, अनुकम्पा कृपा, पारुष्य निष्ठुरवचनत्वं, कार्पण्य, एतानि परिशुद्धये भवन्ति, व्रतोपव्रतयुक्तस्तु तत्र हिंसाऽनृतस्तेया-ऽब्रह्म-परिग्रहेभ्यो विरतिव्रतम् . एवमुपवतमागमावसेयं ताभ्यां युक्तः पुनः, स्मृतिस्थैर्योपपत्तये स्मृतिदाढर्याय भवति / / // 18 // उपधानविधिश्चित्रशेषाशयविशोधनः / न्याय्यो वातादिवैषम्यविशेषौषधकल्पवत् // 19 // उपधानविधिरिति / उपधानविधिः उपधानविधानमित्यर्थः, चित्रशेषाशयविशोधनः अनेकविधावशिष्टान्तःकरणय विशुद्धिकारकः, न्याय्यो न्यायादनपेतो युक्त इति यावत्, तत्र निदर्शनं वातादिवैषम्यविशेषौषध कल्पवत् वात-पित्त-कफानां वैषम्यविशेषस्योषधकल्पनं यथा वातादिदोषाणामुपशमनलक्षणविशुद्धिकारितेत्यर्थः // 19 // न विधिः प्रतिषेधो वा कुशलस्य प्रवर्तितम् / तदेव वृत्तमात्मस्थ यत् कषायपरिपक्तये // 20 // न विधिरिति / कुशलस्य कुशलचित्तस्य पुंसः, प्रवर्तितुम् प्रवृत्ति विधातुं, विधिः विधायकशास्त्र, प्रतिषेधो वा निषेधशास्त्रं वा, न नैवं, क्रमत इति, तदेव एतदेव, वृत्तमाचरणम् ; आत्मस्थ आत्मगतम् , कषायपरिपक्तये काम क्रोधादिकषायपरिपाचनाथं भवति, एतादृशावस्थः पुमान् परिपक्वकषायो भवतीत्यर्थः // 20 // न दोषदर्शनाच्छुद्धं वैराग्यं विषयात्मसु / मृदुप्रवृत्त्युपायोऽयं तत्त्वज्ञानं परं हितम् // 21 //