SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता दशमो द्वात्रिंशिका। 261 द्रव्य-पर्यायसंकल्पश्चेतस्तव्यजकं वचः / तद् यथा यत्र यावच्च निरवद्येति योजना // 15 // द्रव्येति / द्रव्यपर्यायसंकल्पः चेतस्तद् इदं द्रव्यं इमे पर्याया इति संकल्पः चेतः, तद्वयञ्जकं तस्य संकल्पस्य व्यञ्जकं ज्ञापकं, वचः वचनं भवति, तद् यथा यत्र यावच्च तत् ववनं, यथा येन प्रकारेण, यच्च यत् स्वरूपं पुनः यावच्च यावत्सङ्ख्यकं च इति, योजना व्यवस्था, निरवद्या निर्दुष्टा // 15 // निषेकादिजरापाकपर्यन्तपौरुपं यथा / सम्यग्दर्शनभावादिरप्रमादविधिस्तथा // 16 // निषेकादिति / यथा निषेकादिजरापाकपर्यन्तपौरुषं गर्भाशये शुकशोणितादिसंयोगादारभ्य शरीरस्वरूपनिष्पत्ति-गर्भाशयनिष्क्रमण-बाल कुमार-युवा-जराचाप्तिपर्यन्त पुरुषसम्बन्ध्यनेकस्वरूपं यथा भवति, तथा तद्वत्, आत्मप्रत्ययलक्षणोपयोगस्य, सम्यग्दर्शनभावादिरप्रमादविधिः सम्यर्शन-सम्यग्ज्ञानभावादिर प्रमाद वधिर्भवतीत्यर्थः // 16 // शब्दादिषु यथा लोकश्चित्रावस्थः प्रवर्तते / तहत् तमात्मप्रत्यहं त्याज्यमित्युभयो नयः // 17 // शब्दादिष्विति / शब्दादिपु शब्दादिविषये घु, यथा यद्वत्, लोकः जनः, चित्रावस्थः अनेकावस्थः, प्रवर्तते, कश्चिज्जनः शब्दादिषु रागात् प्रवर्तते, कश्चित् पुनस्तेषु द्वेषान्निवर्तते, कश्चित् पुनस्तेपेक्षा करोति, तद्वत् तत्तुल्यम् , आत्मप्रत्यक्षम् आत्मप्रत्यक्षमपि तथैव नानाविधं भवति, त्याज्यं औपाधिक नानाविधमात्मप्रत्यक्षमिति मत्त्वा त्यक्तव्यम् , इति एवं स्वरूपव्यञ्जकः, उभयो नयः द्रव्याथिक-पर्यायार्थिकनयौ. द्रव्यार्थिको नयः स्थिर स्वभावान् शब्दादीन् विषयान् प्रतिपादयति उपयोगं च स्थिर स्वभावं प्रतिगदति, पर्यायाथिकश्च नयः शब्दादिविषयाणामनेकावस्थाः प्रतिपादयति, उपयोगस्य चाने कस्वरूपं
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy