________________ दिवाकर कृता किरणावलीकलिता दशमी द्वात्रिंशिका / जातीति / जाति-लिङ्ग-परिमाण-काल-व्यक्तिप्रयोजनाः जातिव्यक्तिप्रयोजनाः, लिङ्गव्यक्तिप्रयोजनाः, परिमाणव्यक्तिप्रयोजनाः, कालव्यक्तिप्रयोजनाः, जातिज्ञानं प्रयोजनं यासां ताः जातिव्यक्तिप्रयोजनाः, लिङ्गज्ञानं प्रयोजनं यासां ताः लङ्गव्यक्ति प्रयोजनाः, परिमाणज्ञान प्रयोजनं यासां ताः परिमाणव्यक्तिप्रयोजनाः, कालज्ञानं प्रयोजनं यासां ताः कालव्यक्तिप्रयोजनाः, संज्ञाः नामानि, मिथ्यापराः नामार्थयोन तादात्म्य सम्बन्धः तथासत्यग्न्यादिशब्दोच्चारणे मुखदाहादिः प्रसज्येत, नापि तदुत्पत्तिः, हिरण्यादिशब्दोच्चारण एव हिरण्यादिधनसम्भवाद् दरिद्रं जगत् स्यात, तादात्म्यतदुःपत्तिव्यतिरिक्तस्तु सम्बन्धो न यथार्थः इति शब्दाद् विकल्पात्मकमेव ज्ञानं न यथार्थम् "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः / ___ कार्य-कारणता तेषां नार्थ शब्दाः स्पृशन्त्यमी / " इति जात्यादियोजनात्मकं शब्दप्रभवं मिथ्याज्ञानमेवेति / मिथ्यापराः मिथ्याज्ञानं परमनन्तरं कार्य यासां ता मिथ्यापराः, दृष्टाः दृष्टाः सत्यः, अचेतसः चेतोविकलान् अज्ञानिन इति यावत् , परिक्षिण्यन्ति परितः सर्वप्रकारेण, क्षिण्यन्ति विमूढान् विदधति // 23 // .. शब्दादीनां यथार्थसम्बन्धसद्भावेऽपि ज्ञानाधीनैव सर्वा प्रवृत्तिरिति ज्ञानमेव जगतः सत्त्वमित्याह यथार्थं वा स्यात् संबन्धः शब्दादीन्द्रियचेतसाम् / तदस्य जगतः सत्त्वमात्मप्रत्ययलक्षणम् // 14 // . यथार्थं वेति।शब्दादीन्द्रियचेतसां शब्दादिविषयश्रोत्रादीन्द्रियश्रावणादिज्ञानानां, वा अथवा, यथार्थ तात्त्विकम् , स्थात् भवेत् , सम्बन्धः संसर्गः, एतावता शब्दादेर्शानं शब्दप्रभवं ज्ञानं वा यथार्थं भवतु एवमपि यथार्थज्ञानादेव वस्तुसिद्धिरिति तज्ज्ञानमेव तत्सत्त्वं तज्ज्ञानाभावे तत्सत्त्वाव्यवस्थितेरिति ज्ञानमेव जगतः सत्त्वमित्याह-तदिति तत् तस्मात् , अस्य जगतः अनुभूयमानस्य विश्वस्य, आत्मप्रत्ययलक्षणं स्वविषयकज्ञानस्य स्वरूपं सत्त्वमित्यर्थः // 14 //