________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / 259 नित्यपक्षेऽपि प्रतिक्षामन्यान्यस्य भावो न त्वनुगामी कश्चित् समस्ति यस्य सुखावस्थाव्ययगमेऽवस्थान्तरप्राप्तौ दुःखं स्यात् उद्वगोऽप्यनुगामिनमन्तरेण न सम्भवति, एवं यो हित मिच्छेत् स पूर्वमेव विनश्यति, हितावाप्तिश्चान्यस्यैव स्यादित्यन्यहितार्थ कथमन्यस्तत्कामः स्यादित्येवमनित्यैकान्तपक्षेऽपि दुःखोद्वेग हितैषिता न भवेदेवेत्यर्थः, अत्र क दीत्यादिपदात् कर्म-करण-सम्प्रदानाद्यशेषकारकोपग्रहः कर्मकरणाये कान्त नित्यानित्य क्षेऽपि दुःखोद्वेगहितैषित्वात् य सम्भवः युक्तिस्तुल्यैवेत्यर्थः // 11 // प्रत्ययत एव नित्यत्वानियत्वादिकं न तु वस्तुत इत्यभिमानस्य मतमुपदर्शयतिउत्पत्तेरेव नित्यत्वमनित्यत्वं च गम्यते / प्रतीत्य संविभावस्तु कारकेष्वपनीयते // 12 // उत्पत्तरेवेति / उत्पत्तेरेव एवकारेण कर्तादिकारकस्य व्यवच्छेदः, यदि कत्तांधकान्त क्षतो नित्यानित्यनानैक्यं न सम्भवति तर्हि उतत्तेरेव नित्यस्वमनित्यत्वं च कश्चिन्मन्यते यद्यप्याद्यक्षणसम्बन्धरूपोत्पत्तिद्वितीयक्षणे नास्तीति त्रिकालस्थायित्वं कालत्यव्यापकत्वपर्यवसितं नित्यत्वमुत्पत्तौ नास्ति, तथापि प्रतिक्षणं कस्यचिदुत्पत्तिर्भवत्येवेत्युत्पत्तित्वेनोत्पत्तिसामान्यस्य कालत्रयस्थायित्वं सम्भचत्येव, विशेषतस्त्वेकोत्पत्तिय॑तिरेकक्षण एव वर्तते, नान्यः क्षण इति व्यक्त्यपेक्षणाऽनित्यत्वं च तस्याः सम्भवतीति, ननूत्पत्तिनित्यत्वानित्यत्ववादे दण्डाच्चक्रे घटस्योत्पत्तेघटोऽनित्यः आमनस्तु न कुतोऽपि कुत्रचिदुत्पत्तिरिति स नित्य इत्येवं घटादावनित्यत्वव्यवहारः,आत्मादौ नित्यत्वव्यवहारः कुत इत्यत आह-प्रतीत्येति. अपेक्षयेत्यर्थः, संविद्भावस्तु नित्यत्वा नित्यत्वादिप्रत्ययसद्भावः पुनः,कारकेषु कर्तादिकरकेषु, उपनायते प्राप्यते, उत्पत्तिगतमेव नित्यत्वानित्यत्वादिकं तत्तत्कर्तादिकारक पेक्षया प्रतीयते इत्येतावता कारकेषु नित्यत्वानित्यत्वव्यपदेश इत्यर्थः // 12 // प्रतीत्यसंविदपेक्षयैव संज्ञाऽपि न त्वर्थे सा तत्त्वतः, अज्ञाः खलु शब्दार्थयोः सम्बन्धं वा, स्तवम भिमन्यमाना भेदबुद्धि माधाय क्लिश्यन्तीत्याह जाति-लिङ्ग-परिमाण-काल-व्यक्तिप्रयोजनाः। संज्ञा-मिथ्यापरा दृष्टाः परिक्षिण्यन्त्यचेतसः // 13 //