________________ 258 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिशिका / एकस्मिन् प्रत्ययेऽष्टाङ्गकर्मसामर्थ्यसंभवात् / नानात्वैकपरीणामसिद्धिरष्टौं तु शक्तितः // 10 // एकस्मिन्निति / एकस्मिन् व्यक्तैकस्वरूपे, प्रत्यये ज्ञाने, अष्टाङ्गकर्मसामर्थ्यसम्भवात् आसन-प्राणायामाद्यष्टाङ्गक्रियासामर्थ्यसंभवतः, नानात्वैकपरीणामसिद्धिः नानात्वस्य य एक परिणाम एकरूपेण परिणमनं तस्य सिद्धिभवति व्यक्त्येवं, तु पुनः, शक्तितः शक्त्या, अष्टौ अष्टपरिणामसिद्धिः, अष्टाङ्गसहितकर्मसार्थ्यतः एकपरीणामस्याङ्गद्वयसहितकर्मसामर्थ्यतः द्विपरिणामस्येत्येवमष्टाङ्गसहितकर्मसामर्थ्यताऽष्टपरिणामस्य सिद्धिः, एकाङ्गसहितकर्मणि यत् सामर्थ्य ततो भिन्नमेवाङ्गद्वयादिसहितकर्मणि सामर्थ्यम् , अत एवं तत्तत्प्रत्येकाङ्गाभ्यसनमपि सफलमित्यर्थः // 10 // नाहमस्मीत्यसद्भावे दुःखोद्वेगहितैषिता / न नित्यानित्यनानैक्यं कर्नाघेकान्तपक्षतः // 11 // नाहमिति / नाहमस्मीत्यसद्भावे इति अहं न अस्मि इत्येवमात्म नोऽसद्भावे असत्त्वे ज्ञाने, दुःखोद्वेगहितैषिता, अहं मरिष्यामीति ज्ञाने सति दुःखमुपजायते, इत्थमुपायशतेनात्मेन्द्रियशरीरादिरक्षणं कुर्वतो ममान्ते मरणमवश्यमिति दुःखबहुलोऽयं भव इत्युद्वेग उपजायते, अनेनोपायेन हितं स्वर्गादिकं मे भूयादिस्येवं हिताभिलाषित्वं भवति, एतच्च सर्वमात्मनो नित्यानित्यस्वरूपत्वे भिन्नाभिन्नस्वरूपत्वं च संभवति, कर्नाद्येकान्तपक्षतः नित्य एवात्मा कर्ता, भनित्य एवात्मा कर्ता इत्याद्येकान्तवादिपक्षात् तु, नित्यानित्यनानैक्यं नित्यं च तदनित्यं च नाना च तदैकं चेति नित्यानित्यनानैक्यं न सम्भवति, एकान्तनित्यश्चेदात्माऽनित्यो न सम्भवति, नानारूप चेत् तदा तस्यैवयं न सम्भवति, एवं चैकान्तनित्यात्मनि सर्वदैकस्वरूपस्यादुःखिनः सतः कुतो दुःखं, पूर्व दुःखाभावे उत्तरकाले दुःखभावेऽनित्यत्वभावात् कुत एकान्तनित्यत्वं, एकान्तनित्यस्य न कदाचित् स्वरूपप्रच्युतिरिति कुत उद्वेगः, एवं सर्वदैकस्वरूपस्य नित्यात्मनोऽनवाप्तव्यं किमपि नास्ति यत्प्राप्त्यर्थमिच्छा भवेदिति हितषिताऽपि न सम्भवति, एकान्ता