________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / 257 भाषेषणा-ऽऽदाननिक्षेपोत्सर्गभेदेन समितेः पञ्चविधत्वम् , क्षमा-मार्दवा-ऽऽर्जव शौचसत्य-संयम तपस्त्यागा-ऽकिञ्चन्य-ब्रह्मचर्यभेदेन धर्मस्य दशविधत्वम् , अनित्या-ऽशरणसंसारकत्वा-ऽशुचित्वा-ऽऽस्रव-संवर-निर्जरा-बोधिदुर्लम-धर्मस्वाख्यातत्वानुचिन्तन भेदेनानुप्रेक्षाया द्वादशविधत्वम् , क्षुत्-पिपासा शीतोष्ण-दंशमशक- नागन्या-ऽरति-स्त्री-चर्यानिषद्या शय्या-ऽऽक्रोश-वध-याचना-ऽलाभ-रोग-नृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञ - ऽज्ञाना-ऽदर्शनपरीषहभेदेन द्वाविंशतिविधाः परीषहाः तेषां जयोऽपि, तथा सामायिकच्छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रभेदेन चारित्रस्य पञ्चविधत्वम्, सद्भिरुपायैर्यथा संवरो भवति तथा तपसाऽपि, तपश्च बाह्या-ऽभ्यन्तरमेदेन द्विविधम्, तत्र बाह्य अनशना-ऽवमौदर्य-वृत्तिपरिसंख्यान रसपरित्याग-विविक्तशय्यासन-कायक्लेशभेदेन षड्विधम् , आभ्यन्तरं तपः प्रायश्चित्त-विनय-वैयावृत्त्यस्वाध्याय-व्युत्सर्गध्यानभेदेन षविधम् इति // 8 // संवरभावनाथं भवजन्मिनां पूर्वापरजन्मसु विषयेन्द्रियसंविदामाभिन्नानां विषयाणां भिन्नवृत्तित्वं चोपदर्शयति परस्परसमुत्थानां विषयेन्द्रियसंविदः / पित्रादिवदभिन्नास्तु विषया भिन्नवृत्तयः // 9 // परस्परसमुत्थानामिति / परस्परसमुत्थानाम् अन्योऽन्यमुत्पन्नानां यो जीवः यस्य जीवस्य पूर्वजन्मनि जनकः स एवोत्तरजन्मनि तस्य जन्य एवमन्योऽन्यं कार्य-कारणभावमापन्नानां जीवानाम्, विषयेन्द्रियसंविदः शब्द-स्पर्शरूप रस गन्धात्मकाः पञ्च विषयाः श्रोत्र- त्वक्-चक्ष-रसना-घ्राणात्मकानि पञ्चेन्द्रियाणि श्रावणत्व-चाक्षुष-रासनाघ्राणात्मकानि पञ्चज्ञानानीत्येवं विषयेन्द्रियसंविदः, पित्रादिवत् यथा पूर्वजन्मनि य एवं पिता स एवोत्तरजन्मनि पुनः, वैव माता सैवोत्तरजन्मनि जाय!, एवं मातुलादिरित्येवं पित्रादको यथा परस्र समुत्थानामभिन्नाः तथा अभिन्नाः, तु पुनः, विषयाः शब्दादयः जात्याऽभिन्नाऽपि, भिन्नवृत्तयः भिन्न कार्य-करणप्रयोजननादिकाः // 9 //