SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 256 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / कारणम् , आलम्बनपरीणामविशेषोद्भवभक्तयः आलम्बनं अमनोज्ञविषयसंप्रयोगादिकं, परीणामः-काम-क्रोधादिकः, तयो विशेषोद्भवा विशेषप्रभवा भक्तयोऽनेकविधालम्बनपरिणामतदवान्तरप्रकाराः, आद्य कारणं तु प्रधानं कारणं पुनरनयोः, परिणामः ध्येयस्वरूपालम्बनसद्भावेऽपि, परिणामविशेषाभावे आर्तध्यानरौद्रध्यानयोर्विशेषाभावात् तद्विशेषादेव तद्विशेष इति तस्य तत्प्रधानकारणतेति // 7 // भवोपादानसम्भव इत्यत्र भवः क इत्याकाङ्क्षानिवृत्तये भवस्वरूपमुपदर्शयति भवः प्रमादचिन्तादिप्रवृत्तिद्वारसंग्रहः। हिंसादिभेदोपचयः संवरैकपराभवः // 8 // भव इति / प्रमादचिन्तादिप्रवृत्तिद्वारसङ्ग्रहः प्रमादचिन्तादीनि यानि प्रवृत्तिद्वाराणि तेषां सङ्ग्रहः सङ्ग्रहणम्, तथा हिंसादिभेदोपचयः हिंसाऽनृतस्तेयादिविशेषाणामुपचयो विवृद्धिः, कथंभूतः स इत्याकाङ्क्षायामाह-संवरैकपराभवः संवरः एकोऽद्वितीयः पराभवो निवर्तको यस्य स संवरैकपरभवः आस्रव निरोधः संवरः तत्र काय-वाङ्मनःकर्मयोगः आस्रवः, कायिक कर्म वाचिकं कर्म मानसं कर्म इत्येवं त्रिविधो योग आस्रवः, तत्र कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः, भाषायोग्यपुद्गलात्मकप्रदेशपरिणामो वाग्योगः, मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, स त्रिविधोऽपि प्रत्येकं शुभाशुभमेदेन द्विविधः, तत्राशुभो हिंसास्तेयाब्रह्माद नि कायिकः, सावद्यानृतपरुषपिशुनादीनि वाचिकः, अभिध्यातव्यापादेया सूयादीनि मानसः, अतो विपरीतः शुभाशुभकर्म गोर स्रवणाद्योगस्यास्रव इति संज्ञा, शुभो योगः पुण्यस्य कर्मणः आस्रवः, अशुभो योगः पापस्य कर्मणः आस्रवः, आस्रवोऽयं मिथ्यादर्शनाविरति-प्रमादकषाययोगेषु पञ्चसु बन्धहेदपु पञ्चम इति बन्धहेतुः सः, स कषायत्वाज्जीवः कर्मणो योग्यान् पुद्ग यानादते सम्बन्ध इति कर्मवर्गणायोग्यस्कन्धानामात्मप्रदेशानां चान्योऽन्यानुगतिलक्षणः क्षीरोदकादेरिव सम्पर्को बन्धः, स प्रकृतिबन्ध-स्थितिबन्ध-अनुभावबन्ध-प्रदेशबन्धभेदेन चतुर्भेदः, एवं च संसारनिमित्तबन्धमूलास्रवनिरोधत्वेन संवरस्य संसारनिवर्तकत्वेन भवति संसारः, संवरैकपराभवः सोऽयं संवरः गुप्तिसमिति-धर्मानुप्रेक्षा-परीषहजयचारित्रैरुपायैर्भवति, तत्र व्यापारयोगनिग्रहो गुप्तिः, कायगुप्ति वाग्गुप्ति-मनोगुप्तिभेदेनास्य त्रैविध्यम् , ईर्या
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy