________________ दिवाकर कृता किरणावलीकलिता दशमी द्वात्रिंशिका / 255 बन्धविशेषः, उत्तम संहननमस्येत्युत्तमसंहननं , तदुनमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम्, वज्रं कीलिका, ऋषभः पट्टः, नाराचो मर्कटबन्धः, प्रथमं त्रितयसंयुक्तं, द्वितीयसंहनने पट्टो नास्ति, तृतीये वज्रर्षभौ न स्तः, ततो वज्रर्षभं अर्धवज्रर्षभं नारावं चेत्यनेन चत्वारो भेदा: प्रतिपाद्या: उत्तमसंहननवाच्याः, उत्तमसंहनन्ग्रहणं निरोधे कार्ये / प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् , तस्योत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् , अग्रम् आलम्बनं एकं च तदगं चेत्येकाग्रम् एकालम्बन मित्यर्थः, एकस्मिन्नालम्बने चिन्तानिरोधः, चलं चित्तमेव, चिन्ता तन्निरोधस्तस्यैकत्रावस्थानमन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिरमध्यावसानमेकालम्बनं छद्मस्थविषयं ध्यानम्, केवलिनां पुनर्वाकाययोगनिरोध एव ध्यानम्, अभावान्मनसः न ह्यवाप्तकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति, ताक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन चतुर्विधेन वा युक्तस्य सम्पन्नस्य एकग्राचिन्तानिरोधः, चशब्दाद् वाक्कायनिरोधच ध्यानम्, अत्र च श्याता संसार्यात्मा, ध्यानस्वरूपमेकाग्रचिन्तानिरोधः, ध्यातिानमिति भावसाधनः, कालतो मुहूर्त्तमात्रम् , चतुःप्रकारमा भिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, शोकाक्रन्दनविलपनादिलक्षणमातम् उत्सन्नबद्धादिलक्षणं रौद्रम् , जिनप्रणीतभावश्रद्धानादिलिङ्ग धर्म्यम् , अबाधाऽसम्मोहादिलक्षणं शुक्लम्, फलं पुनस्तियङ-नरकस्वर्गेत्यादिमोक्षाख्यमिति क्रमेण उत्तम संहननपदार्थलभ्यो ध्याता अभिहितः ध्यानस्वरूपं भावसाधनता च विज्ञेया इति, कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति तदविरत-देशविरत-प्रमत्तसंयतानामेव भवति, हिंसाऽर्थमनृतवचनार्थं स्तेयार्थ विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानम् तदविरत-देशविरतयोरेव भवतीति // 6 // आर्त्त-रौद्रध्यानयोः कारणमुपदर्शयति आलम्बनपरीणामविशेषोद्भवभक्तयः / निमित्तमनयोराद्यं परिणामस्तु कारणम् // 7 // आलम्बनेति / "अनयोनिमित्तमालम्बनपरीणामविशेषोद्भवभक्तयः, आद्य कारणं तु परिणामः" इत्यन्वयः। अनयोः आर्तध्यान-रौद्रध्यानयोः, निमित्तं