SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 254 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका / सन्ततिरेवात्मेति सौगता इत्येवं नानात्मव्यस्तचक्षुषां पुरुषाणाम् , आजस्त्रिक सार्वकालिकं, अपध्यानाद दुर्ध्यानात् शरीरमेव त्मेत्यादिनिरन्तरमननलक्षणध्यानात, जन्मकर्मविशेषेभ्यः, निष्कृष्टजन्महिंसादिलक्षणकर्मविशेषेभ्यः, शरीरमेवात्मानमभिमन्यमाना इन्द्रियादिकमेव त्मानमभिमन्यमाना शरीगदिपुष्टिरेव येन कर्मणा स्यात् तादृशमेव कर्माचरन्ति ततश्च तत्प्रभवं तात्कालिकं तज्जन्य. पापसमुत्थजन्मान्तरभवं वा दुःखमनुभवन्तीति, दुःखापातः, तदेव वा अथवा आजस्त्रिकं दुर्ध्यानमेवात्मानं पीडयतीति दुःखम् // 5 // मोहाभिभूतचित्तस्य पुंस आर्त-रौद्रध्याने भवत इत्याह पिपासाऽभ्युदयः सर्वो भवोपादानसाधनः / प्रदोषापायापगमादातरौद्रे तु ते मते // 6 // पिपासाभ्युदय इति / सर्वः अखिलः, पिपासाभ्युदयः पातुमिच्छा पिपासा तस्या अभ्युदयः अभितः सर्वप्रकारेणोदय आविर्भावः यं यं कामभवमप्नोति तस्य तस्य कामस्य पुनः पुनर्भोगेच्छा वर्धत एव, न तु तत्तद्भोगेच्छा विनिवर्तते, __"न जातु कामः कामानामुपभोगेन शाम्यति / हविषा कृष्णवर्मेव भूय एवाभिवर्धते // " इति वचनात, कीदृशः स इत्माकाङ्क्षायामाह-भवोपादानसाधनः भवस्य 'संसारस्य यदुपादानं भवोपग्राहि कर्म तत्ताधनः तन्निमित्तकः, एवम्भूतपिपासाभ्युदय एव आर्त्त-रौद्रध्यानतामुपगच्छतीत्याह-प्रदोषापायापगमात् प्रदोषाणां •प्रकृष्टानां दोषाणां काम-क्रोधादीनाम् अपाये निर्णयात्मकज्ञानेऽरगमन त् निर्णयविषयक कामक्रोधादितः, तु पुनः, ते आतरौद्रे आत्तरौद्रध्याने, मते अभ्युपगते, तत्तदोगेच्छायां सत्यां तद्विषयसम्पत्तौ पुनरतदिच्छान्तरलक्षणकामप्र दुर्भावः तदिच्छाविषया. सम्पत्तौ त्त्प्रतिबन्धके द्वेष इति कामक्रोधसन्ताननिरन्तरानुभवनलक्षणे आ-ध्यानरौद्रध्याने भवत इति यावत् इदमत्रावधेयम् / “उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमिति" ध्यानसामान्यलक्षणप्रतिपादकं तत्त्वार्थसूत्रम्. तदर्थस्फोटात्मकं भाष्यमिदम्-उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् , एतद्व्याख्यानमित्थम्-उत्कृष्टं प्रकृष्टं संहननं-अस्मां
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy