SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिशिका। 253 किमेकप्रकारोऽस्मि, च पुनः, इत्येवं विदुषा पण्डितेन, उद्यतं तत्त्वनिर्णयाय प्रवतमानं, चक्षुः स्पष्टज्ञानसाधनं, यदा भवति तदेति शेषः, अत्रैव च अस्मिन् भव एव च, विनिश्चयः याक्स्वरूप आत्मा तादृक्स्वरूपस्याहन्त्वाद्यन्यतमस्य विशेषेण निश्चयो भवतीत्यर्थः // 3 // तत्राहन्त्वबुद्धिलक्षणो विनिश्चयो मोह इत्याहमोहोऽहमस्मीत्याबन्धः शरीरज्ञानभक्तिषु / ममत्वविषयास्वादद्वेषात् तस्मात् तु कर्मणः // 4 // मोहोऽहमस्मीति / "तस्मात् तु शरीरज्ञानभक्तिषु ममत्वविषयास्वादद्वेषात् कर्मण: अहमस्मीत्याबन्धो मोहः'' इत्यन्वयः / तस्मात् तु विनिर्णयात् पुनः, शरीरशानभक्तिषु ममत्व विषयास्वादद्वेषात् शरीरे ममताज्ञाने विषयास्वादः, भक्तौ एकधैव भक्तौ देवान्तरे द्वेषः इत्येतस्मात् कारणात्, अत्र समाहारद्वन्द्वाश्रयणादेकव चनभावः, कर्मणः अभिनवकर्मणः, अहमस्मीत्याकारकः, आबन्धः आसमन्तादरो बन्धः संमोहः, शरीरे यदि ममत्वं न स्यात् ज्ञाने च विषयास्वादो न भवेत्, भक्तौ चान्यदेव द्वेषश्च न स्यात् तदाऽहमस्मीति निर्णयात्मका हङ्कारभावान्नाभिनवकर्मबन्धनद्धे तुर्मोहो वेत्यभिसन्धिः / / 4 // मोहनिमित्तकर्मबन्धाच्चोत्तर जन्मक विशेषप्रभवो दुःखापातो भवतीत्यावेदयति जन्मकमविशेषेभ्यो दुःखापातस्तदेव वा / आजनिकमपश्याना नानात्मव्यक्तचक्षुषाम् // 5 // जन्मकर्मविशेषेभ्य इति / 'अपश्याना' इत्यस्य स्थाने 'अपध्यानात' इति पाठो युक्तः / “मानामव्यक्तचक्षुषम् आजस्रिकमपध्यानात् जन्मकर्मविशेषेभ्यो दुःखापातो वा तदेव' इत्यन्वयः / नानात्मव्यक्तचक्षुषाम् शरीरेन्द्रियमनोबुद्धयादिनानात्मसु व्यक्तं चक्षुई प्टियेषां ते नानात्मव्यक्तचक्षुषः तेषां शरीरं पञ्चभूतात्मकमेव चैतन्यवत्त्वादात्मेत्येके, चक्षुरादीनीन्द्रियाण्येव चैतन्याधारतयात्मेत्यपरे, मन एव करणं कर्तृ चेत्यात्मेत्यन्ये, बुद्धिरेव कर्ता चेतनेत्यात्मेति परे, आलयविज्ञान
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy