________________ 252 दिवाकरकृता किरणावलीकलिता दशमो द्वात्रिंशिका / कथालक्षणसङ्गमजनकत्वाद् विग्रहम् अनेकान्तवादिवचनं स्वस्वाभ्युपगतप्रकारनिर्णयाजनकत्वान्न विग्रहमित्यविग्रहम् , अनाशसमिति पूर्ववत् अपरप्रत्ययास्मकम् न विद्यते परो भिन्न उत्कृष्टो वा प्रत्ययो विश्वासो यस्मात् तदपरप्रत्ययं तदात्मकम् उत्कृष्ट विश्वासस्थानम् अथवा सर्व हि वाक्यं क्रियायां परिसमाप्यते इति वैयाकरणसिद्धान्तात् सर्वस्य वाक्यस्यान्ते क्रियाव चनं भवतीति परप्रत्यया. त्मकं, क्रियावचनं यत: धातुलक्षण प्रकृन्युत्तरवत्परिख्यातलक्षणप्रत्ययान्मकमिति, जैनमते चोक्तनियमाभावान्न परप्रत्ययात्मकमित्यपरप्रत्ययात्मकम् , तस्मै निरुक्तामृतवक्त्रे, मुनये मुनीश्वराय, वीराय चरमजिनाय, नमः नमस्कारोऽस्त्वित्यर्थः // 1 // ज्ञानिनो वर्तमानभववदतीतानागतभवौ समतया विज्ञायते इत्याह स्वशरीरमनोऽवस्थाः पश्यतः स्वेन चक्षुषा / यथैवाऽयं भवस्तद्वदतीतानागतावपि // 2 // स्वशरोरेति / “स्वेन चक्षुषा स्वशरीरमनोऽवस्थाः पश्यतः अयं भवो यथैव तद्वदतीतानागतावपि'' इत्यन्वयः। स्वेन स्वकीयेन, चक्षुषा चक्षुःपदं स्पष्टज्ञानसाधनमात्रपरमिति स्पष्टज्ञानकरणेन, स्वशरीरमनोऽवस्थाः स्वशरीरस्य बाल-युव-वृद्धाद्यवस्था ज्वरादिपीडावस्थाः स्वमनसश्च क्षिप्तविक्षिप्ताद्यवस्थाः काम-क्रोध-लोभ मोहाद्यवस्थाश्च, पश्यतः स्पष्टमवगच्छतः पुरुषस्य, अयं भवः वर्तमान जन्मजरादिलक्षणः संसारः, यथैव यद्रूपेणव अवभासते इति दृश्यम्, तद्वत् वर्तमानभववत् , अतीतानागतावपि अतीतभवानागतभवावपि स्वशरीरमनोऽवस्था समन्वितावभासेते इत्यर्थः // 2 // अस्मिन् भव एवाहं वादिनिर्णयो येन स्पष्टज्ञानसाधनेन विज्ञस्य भवति तेनैवातीतानागतभवगतस्यात्मनोऽहन्त्वादिनिर्णय इत्युपदर्शयति किमत्राहं किमनहं किमनेकः किमेकधा / विदुषा चोद्यतं चक्षुरत्रैव च विनिश्चयः // 3 // किमत्राहम् इति / अत्र अस्मिन् भवे, किमहम् किमहन्त्वशाल्यस्मि, किमनहं किमनहन्त्वशाल्यस्मि, किमनेकः किमने कस्वरूपोऽस्मि, किमेकधा