________________ दशमी द्वात्रिंशिका / स्याद्वादीष्टप्रकारैः स्तुतिरियमुदिता सिद्धसेनाभिधानै रावार्यैर्वादिवर्यैश्वरमजिनवचःलाध्यता भावनार्था / व्याख्या तम्या यथार्थानुरटनफलिका कीर्त्यते धीधनेन लावण्येनाप्तभक्त्या जिनमतमननास्वादनातत्परेण // 1 // श्रीभगवन्तं वीरजिनं प्रगमति अविग्रहमनाशंसमपरप्रत्ययात्मकः / प्रोवाचामृतं तस्मै वीराय मुनये नमः // 1 // अविग्रहमिति / "यः अविग्रहमनाशं सम् अपर प्रत्ययात्मकम् अमृतं प्रोवाच तस्मै मुनये वोराय नमः" इत्यन्वयः / यः जिनः, अमृतं मोक्षं, प्रोवाच उपदिदेश, कथंभूतं अमृतम् . अविग्रहं औदारिक-वैक्रियानाहरक-तैजस-कार्मगेति पञ्चविधशरीररहितम् , अनाशंसम् अशंसा कामना, न विद्यते कामनालक्षणाशंसा यत्र तदनाशंसं तत् कृतकृ यस्य भगवतो मुक्तस्य तदानीं कामनाऽभावात् 'अपरः प्रत्ययात्मकः' इत्यस्य स्थाने 'अपरप्रत्ययात्मकम्' इति पाठो युक्तः / अपरप्रत्यया. त्मकम् न विद्यते पर उत्कृष्टो यस्मात् सोऽपरः अपरश्चासौ प्रत्ययश्चापरप्रत्ययः अपरप्रत्यय आत्मा स्वरूपं यस्य तदपर प्रत्ययात्मकं, केवलज्ञानात्मकसर्वोत्कृष्टज्ञानात्मकं अथवा न विद्यते पर: स्वभिन्नः प्रत्ययो ग्राहकं ज्ञानं यस्य सोऽपरप्रत्ययस्तदात्मकं स्वसंवेद्यज्ञानस्वरूपम् तत् अथवाऽमृतवत् सुधावदास्वाद्यमानं सदानन्दजनकं स्याद्वादलक्षणवचनम् , अमृतं यः प्रोवाच उक्तवान्, वचनामृतं विशिनष्टि-अविग्रहम् विरुद्धः विरुद्धधर्मप्रकारको प्रहो ज्ञानं यस्मात् तद्विग्रहं संदिग्धवचनं, न विग्रहं भवितेत्येवं निर्णयात्मकवचनम् , एतेन समासव्यासो भवस्वरूपस्य स्याद्वादागमस्य व्यासलक्षणविग्रहावश्यवादविग्रहमिति न सम्भवतीत्याशङ्का दूरीकृतः, अथवा- 'उप्पेइ वा धुवेइ वा विगमेइ वा इति त्रिपञ्चात्मक. मेव वचनं भगवान् प्रथमतः प्रोवाच तच्च न समासवचनमतो विग्रहानपेक्षत्वादविग्रहम्, अर्थवैकान्तवादिवचनं सर्व परवादिना सह परस्परमतखण्डनात्मक