________________ 250 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / यथा निश्चलः, तथा स्तब्धः निश्चेष्टः, दिवि अन्तरिक्षे, तिष्ठति स्थितः, एक: अद्वितीयः, तेन पुरुषेण निरुक्तस्वरूपेण पुरुषेण, इदं सर्व दृश्यमानं, जगदेव, पूर्ण व्याप्तम् // 31 // जगज्ज्ञानता पुरुषज्ञाने फलवैलक्षण्यमुपदर्शयतिनानाकल्पं पश्यतो . जीवलोकं नित्यासता व्याधयश्चाधयश्च / यस्मिन्नेवं सर्वतः सर्वतत्त्वे / ___दृष्टे देवे नो पुनस्तापमैति // 32 // नानाकल्पमिति / नानाकल्पं नानाप्रभेदम् , जीवलोकं जीवा लोक्यन्ते अस्मिन्निति जीवलोकं जगदेव, पश्यतः साक्षात्कुर्वतः पुरुषस्य, नित्यासक्तो व्याधयश्च, नित्यसम्बद्धशारीरिकानेकपीडाश्च, आधयश्च मानसिकपीडाश्च भवन्त्येवेति शेषः, अतोऽनुपादेयं, विश्वतत्त्वमित्यभिसन्धिः / एवं अनन्तरोक्तप्रकारेण, सर्वतः सर्वप्रकारेण, सर्वतत्त्वे सर्वतत्त्वात्मके, यस्मिन् जीवलोके, देवे षुरुषे, दृष्टे सति, पुनः तापं कायिक-वाचिकपीडादिकं, नो नैव, एति प्राप्नोति, मुक्तो भवतीत्यर्थः // 32 // सगृह्णन् सर्वमेवाद्वयपुरुषलस सच्चिदानन्दरूपै र्वेदान्तिसङ्ग्रहात्मा नय इह परमो निश्चयो नः प्रतीतः / किन्त्वेकान्तो न मान्यो भवति ननु यतो दुर्नयो नीतिविज्ञै नैवात्रास्था विधेया भवति भजनया सोऽपि मान्यः कथञ्चित् // 1 // इति नवम्या वेदवादद्वात्रिंशिकाया व्याख्या समाप्ता //