________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 249 ब्रह्मज्ञानिनः शोकादिकमपि नास्तीत्याहनैनं मत्वा शोचते नाभ्युपैति नाप्याशास्ते म्रियते जायते वा / नास्मॅिल्लोके गृह्यते नो परस्मिन् ___लोकातीतो वर्तते लोक एव // 30 // नैनं मत्वेति / एनं ब्रह्मस्वरूपमात्मानं, मत्वा ज्ञात्वा, शोचनीया भावात् , न शोचते न शोकमुपगच्छति, नाभ्युपैति अभ्युपगमनीयान्तराभावात् नाभ्युपैति न किमपि स्वीकरोति, नाप्याशास्ते इदं मे भवत्वित्याशामपि न करोति अप्राप्येष्टवस्त्वभावात् , म्रियते. जायते वा जन्मान्तरभोग्यादृष्टभाक्त्वाद् भुज्यमानफलकादृष्टस्य चाभावात् न मृत्युमधिगच्छति नोत्पद्यते च, अस्मिन् लोके अनुभूयमानैतद्भुवने, न गृह्यते न ज्ञायते एतल्लोकपरिच्छिन्नरूपाभावात्, नो परस्मिन् परलोकेऽपि न ज्ञायते एतल्लोकपरिच्छिन्नरूपाभावात् , लोकातीतः लोकरहितः, एवं सत्यपि, वर्तते लोके एव एतल्लोक-परलोकान्यतरस्मिन्नेवावतिष्ठते // 30 // पुरुषमेव स्तौतियस्मात् परं नापरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् / वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः तेनेहं पूर्ण पुरुषेण सर्वम् // 31 // यस्मादिति / यस्मात् पुरुषात् , परमुकुष्टम्, अपरमपकृष्टम् , किञ्चित् किमपि, नास्ति न विद्यते, पुरुषस्य सर्वात्मकत्वेन ततो भिन्नस्य कस्यचिदभावेन स्वापेक्षयैव, स्वस्य परत्वापरत्वासम्भवात् , अत एव यस्मात् पुरुषात् , अणीयः अणुतरः, न कश्चित् कोऽपि नास्ति, यस्मात् पुरुषात् ज्यायो ज्यायान् नास्ति कश्चित् न विद्यते कोऽपि, वृक्ष इव वृक्षो