________________ 244 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिशिका / तम् आदि-मध्यान्तरहितम्, अपुण्यपापम् पुण्य-पापरहितमिति तदर्थः, बालं. बाल्यावस्थम् अपि, कुमारं कौमारवस्थम्, अजरं च जरावस्थारहितं पुनः, वृद्धं वार्धवयावस्थामापन्नम्, एनं पुरुषं, ये विदुः ये केचन जानन्ति, ते निरुक पुरुषस्वरूपाभिज्ञाः, अमृता भवन्ति मुक्ता भवन्तीत्यर्थः / तदुक्तम्-"वेदाहमेतमजरं पुराणम्' ( शो. 3 / 21 ), तथा-“य एतद्विदुरमृतास्ते भवन्ति" (श्वे. उ. 1) इति च // 28 // ब्रह्मज्ञानी पुरुषो ब्रह्मस्वरूप एव न तत्र ब्रह्मचर्यादिकं कर्त्तव्यं, सामान्यविशेषरहित एव स भवतीत्याह नास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्य नेज्या जापः स्वस्तयो नो पवित्रम् / नाहं नान्यो नो महान् नो कनीयान् निःसामान्यो जायते निर्विशेषः // 29 // 'नास्मिन् शात इति / अस्मिन् उपवर्णितस्वरूपे, ब्रह्मणि पुरुषे, शाते अपरोक्षज्ञानविषयीभूते सति, न ब्रह्मचर्य अमेथुन व्रतं न विद्यते, इज्या यागः, जापः आसमन्तान्मन्त्र जपादिकमपि न कर्त्तव्यपद्धतिमेति, नापीत्यस्य स्वस्तय इत्यनेनापि सम्बन्धः, स्वस्तिवचनादिकमपि न प्रयोजनवत् , नो पवित्रम् पूतत्वकार्यपि न किञ्चित् , अथवा स्वस्तयो नो पवित्रमित्येकमेव वाक्यम् स्वस्तिवचनानि पूतत्वकारीणि न भवन्ति स्वयमेव पूतस्य पूतत्वकरणासम्भवात् , नाहं अहंत्वाभिमानास्पदं न, नान्यः अन्यो न भवति, अद्वैतभावमापन्नस्य द्वैतासम्भवात् , नो महान् महत्परिमाणवान् न भवति अथवा स्वापकृष्ट गुणवत्पुरुषापेक्षयोत्कृष्ट गुणवत्त्वलक्षणमहत्त्ववान् न भवति, नो कनीयान् नाणुपरमाणुवान् , स्वोत्कृष्टगुणवत्पुरुषापेक्षयाऽपकृष्टगुणवत्त्वलक्षणकनिष्ठत्ववान् न भवति वा, निस्सामान्यः सामान्यरहितः, जायते भवति, तथा निर्विशेषः विशेषरहितो जायते निर्धर्मकब्रह्मरूपो भवतीत्यर्थः // 29 / /