________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिशिका / 217 अस्मिन् पुरुषे, वाचः वचनानि, युक्तयः तर्क-वितर्कादयः, विशीर्यन्ते विनश्यन्ति न प्रवर्तन्ते इति यावत् , तदुक्तम्-“यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति ( तै० उ० 2 / 8 ) // 26 // बुद्धयादिरूपत्वमस्य पुरुषस्य दर्शयति - बुद्धिबोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा / नासावेकं ना पृथग् नाभि नाभौ सर्व चैतत् पशवो यं द्विषन्ति // 27 // बुद्धिबोद्धेति / अत्र 'बुद्धिर्बोद्धाः' इति पाठो युक्तः / बुद्धि ज्ञानं, बोद्धा ज्ञाता, बोधनीयः ज्ञापनीयः, अन्तरात्मा मनोगम्यः शरीरान्तःस्थितः, च पुनः, बाह्यः शरीराद् बहिर्वतमानो बहिरिन्द्रयगम्यः पदार्थः, अयं पुरुषः, स पुरुषः परात्मा उत्कृष्टात्मा, दुरात्मा दुष्टात्मा, असौ पुरुषः, एकमद्वितीयम्, न न भवति, ना नैव, अ-मा-नो-ना निषेधवचना इति नाशब्दस्य निषेधार्थ वात्, पृथग् भिन्नमने कमिति यावत्, नाभि नोभो अभि सर्वतोभावेन उभौ द्वौ एकानेकोभयात्मकौ न इत्यपि न, च पुनः, सर्वमेतत् अखिलात्मकं पुरुषस्वरूपम्, पशवः अज्ञानिनः, यं पुरुष, द्विषन्ति नास्त्येवोक्तस्वरूप ईश्वर इत्येवं, द्विषन्ति प्रतिक्षिपन्तीति // 27 // पुरुषज्ञा अमृतत्वं प्राप्नुवन्तीत्याहसर्वात्मकं सर्वगतं परीत मनादि-मध्यान्तमपुण्य-पापम् / वालं कुमारमजरं च वृद्धं . . य एनं विदुरमृतास्ते भवन्ति // 28 // सर्वात्मकमिति / सर्वात्मकं निखिलवस्तुस्वरूपम्, सर्वगतं सर्ववस्तुपरिनिष्ठितम् , परीतं सर्वतः इतं व्याप्तम् परिच्छिन्नमिति यावत्, अनादिमध्या