________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / अस्मिन्नेकशतं निहितं मस्तकाना मस्मिन् सर्वा भूतयश्चेतयश्च / महान्तमेनं पुरुषं वेद वेद्य. मादित्यवर्ण तमसः परस्तात् // 25 // अस्मिन्निति। अस्मिन् संसारवृक्षस्वरूपात्मनि, मस्तकानां मुण्डानाम्, एकशतं उपलक्षणमेतत् असंङ्ख्य तं, निहितं अन्तः स्थापितम्, शरीरे प्रधानाङ्गत्वान्मस्त कस्य निर्देशः मस्तकेनोत्तमाङ्गेन प्राणिनो विशिष्यमयन्त इत्यनेन प्राणिनामित्यावेदितम्, सर्वेऽपि प्राणिनोऽस्मिन्नेव निगूढास्तिष्ठन्तीत्याशयः। अस्मिन् निरुक्तस्वरूपात्मनि, सर्वा निखिलाः, भूतयोऽणिमा-लाघिमाद्या विभूतयः, च पुनः, इतयः अन्नाद्युपघातका उपद्रवाः, महान्तं महत्त्वशालिनम् , एनं संसार. वृक्षस्वरूपं, पुरुषं वेदवेद्यं पुरुषं आत्मानं, वेद जानामि, कीदृशम् ? आदित्यवर्ण आदित्यस्य सूर्यस्यात्यन्तभास्वरवर्णमिव वर्ण यस्य स आदित्यवर्णस्तम् सूर्यवद्देदीप्यमानप्रकाशस्वरूपम्, तमसः अन्धकारस्याज्ञानलक्षणस्य, परस्तात् दूरवत्तमानम् , उक्तं च-'वेदाहमेतं पुरुषं पुराणमा दत्यवर्ण तमसः परस्तात् ( यजुः 32 ) // 25 // सर्वस्वरूपोऽयं पुरुष इत्याहविद्वानज्ञश्चतनोऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतन्त्रः / क्षराकारः सततं चाक्षरात्मा विशीर्यन्ते वाचो युक्तयोऽस्मिन् // 26 // विद्वानिति / विद्वान् पण्डितः, अज्ञो मूर्खः, चेतनः चैतन्यशाली, अचेतनो वा अथवा जडः, स्रष्टा जगत्सृष्टिकर्ता, निरोहः निश्चेष्टः, ह वितर्के, स पुमान्, आत्मतन्त्रः स्वतन्त्रोऽन्यापेक्ष इति यावत् / क्षराकारः विनाशस्वभावः, सततं च सर्वदा पुनः, अक्षरात्मा एकान्तनित्यैकस्वरूपः