________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 245 एषोऽजस्रं वर्तते कालचक्र मेतेनाय जीवते जीवलोकः // 23 // अस्मिन्निति / अस्मिन् संसारस्वरूपे आत्मनि, सविता सूर्यः, उदेति उदयं प्राप्नोति, तं विशिनष्टि-लोकचक्षुः लोका एतत्प्रकाशसहकारेणैव सर्व पश्यन्तीति भवति, लोकचक्षुः सविता, अस्मिन् आत्मनि दिनावसानसमये, अस्त लोकदृष्ट यगो वरं, गच्छति प्राप्नोति, तदुक्तम्-"यतश्चोदेति सविता यत्र वास्तै गच्छति" (क० उ० 4 / 9) / एषः आत्मा, अजस्रमपरि. च्छिन्नं, कालचक्रं समयचक्रमुदयास्तमयस्वरूपं वर्तते, एतेन कालचक्रेण सूर्योदयास्ताकलितदिवसरात्रिपरिभ्रमणेन, अयं जीवलोकः जन्तुसमूहः, जीवते प्राणान् धारयति / 23 // पुनरेवं स्तौतिअस्मिन् प्राणाः प्रतिबद्धाः प्रजाना मस्मिन्नस्ता रथनाभाविवाराः / अस्मिन् प्रीते शीर्णमूलाः पतन्ति प्राणाशंसाः फलमिव मुक्तवृन्तम् // 24 // अस्मिन्निति / अस्मिन् संसारस्वरूपे आत्मनि, प्रजानां जन्तुनाम् , प्राणाः इन्द्रियादयः, प्रतिबद्धाः सम्बद्धाः, अस्मिन् निरुक्तस्वरूपात्मनि, रथनामौ रथनाभौ रथमध्यभागे इते तात्यार्थः, गन्ता पुरुषोऽभीष्टस्थानमाप्नोति, तथा बिचारारूढं मनई हितस्थ नं व्रजतीति विचारस्य रथसंज्ञकत्वम्, अरा इव नाभिनेमिमदर्यक्लिन्ना इव (प्राणाः', अस्ता अस्तमिताः, ते पुनः अस्मिन् आत्मनि, प्रीते प्रसन्ने स्वस्वरूपावस्थिते सति, शीर्णमूलाः मूलं संशयजिज्ञासादिकं तत् शीर्णं जर्जरितं येषां ते शीर्णमूलाः सन्तः, (प्रजानाम् ) प्राणाशंसा प्राणानामिन्द्रियादीनामाशं पनान्याशंसाः प्राणा इन्द्रियादयो मम परिपुष्टास्सन्तु, इत्येवंरूपा विचाराः, मुक्तवृन्तं मुक्तं परित्यक्तं वृन्तं येन तन्मुक्तवृन्तं, फलमिव मुक्तवृन्तं फलं यथा पति, तथा पतन्ति अधोगच्छन्ति घिनश्यन्तीत्यर्थः // 24 //