________________ 244 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / / दिशः श्रोत्रं नाभिरन्ध्रमब्दयानं पादाविला सुरसाः सर्वमापः // 21 // मन इति / अस्य संसारवृक्षरूपात्मनः, मनः 'अन्तःकरणं, सोमश्चन्द्रमाः, चक्षुर्नयनं, सविता सूर्यः, घ्राणं घ्राणेन्द्रियं, प्राणः प्राणादिपञ्चवायवः, आज्यपिवः यज्ञे घृतपानकर्तृ अस्यात्मनः, मुखम् आननम् , दिशः दशापि दिशः, श्रोत्रं श्रवणेन्द्रियं कर्णम् , नाभिरन्ध्रम् नाभिः रन्ध्रा नवछिद्राणि, अब्दयानम् अन्दाः मेघास्तेषां यानं मार्गः आकाशम् , पादाविला पादौ चरणौ इला पृथ्वी, सुरसाः आपः नद्यः, सर्व निखिलं वस्तु-एवंदिशा आत्मा शेषावयवान् प्राप्नोति // 21 // विष्णुबींजमम्भोजगर्भः . शम्भुश्चायं कारणं लोकसृष्टौ / नैनं देवा विद्रते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च // 22 // विष्णुरिति / अयमात्मा, लोकसृष्टौ जगदुत्पत्ती, विष्णुः सत्त्वगुणावच्छिन्नचैतन्यरूपः, तथापि अम्भोजगर्भः विष्णुनाभिकमलोत्पन्नो ब्रह्मा, बीजं निमित्तम् , शम्भुः तथापि जगदुत्पत्तो कारणम् , अत एव 'जन्माद्यस्य यतः' इति व्याससूत्रम् / 'विद्रते' इत्यस्य स्थ ने ‘विन्दते' इति पाठो युक्तः-विन्दते जानन्ति प्राप्नुवन्तीति तदर्थः, नो मनुष्या विद्रते इत्यन्वयः / शुद्धं चैतन्यस्वरूपमात्मानं ज्ञातुं प्राप्तुमशक्ता अपि देवादयो मायावच्छिन्नं तं सगुणं जानन्त्येवेत्याह-च पुनः, देवा इन्द्राद्याः, इतेरतराश्च परस्परोपास्योपासकभावेन सम्बद्धा अन्येऽपि मनुष्यादयोऽपि, एनं सगुणमात्मानं, विदुः जानन्ति // 22 // संपारवृक्षम्वरूमात्मानमेवाधिकृयाहअस्मिन्नुदेति सविता लोकचक्षु- . रस्मिन्नस्तं गच्छति चांशुगर्भः /