________________ दिवाकर कृता किरणावल कलिता नवमी द्वात्रिशिका ! 243 अयमुद्दण्डः प्रणभुक् प्रेतयानै __रेष त्रिधा बद्धो कृपभो रोरवीति // 19 // अयमेवेति / अयमेव आत्मेव, देवनानाम् इवोपेन्द्र-वरुणादीनाम् , अन्तः अन्तःकरणे, चरति तत्तद्व्यापरं भावयति, अस्मिन् आत्मनि, विश्वे देवाः, सर्वेऽपि देवाः, अधि निवेदुः अधितिष्ठन्ति, अयम् आत्मा, उद्दण्डः, सर्वतो निर्भीकः, प्रेतयानैः प्रेतगमनमार्गः प्राणभुग सर्वजनप्राणान् भुङ्क्ते सर्वस्य प्राणानयमेवारहरतीति यावत्, ए आमा, त्रिधा त्रिप्रकारेण, यथा वृषभः नात्रिकया गले पादे च बध्यते तथा सत्त्व-रजस्तमोलक्षणेन बद्धो मायाधीनः, वृषभो वर्षगशोलः कल्पाणवी, बलीवर्दः रोरवीति अत्यन्तं रटति. पारवश्यं प्रकटयति // 19 // अपां गर्भः सविता वहिरेष हिरण्मयश्चान्तरात्मा देवयानः / एतेन स्तम्भिता सुभगा धौर्नभश्च गुर्वी चोर्वी सप्त च भीमयादसः // 20 // अपांगर्भ इति / एप आत्मा, अपां गर्भः जलानां गर्भवन्निवासस्थानं, सविता सूर्यः, आव सूर्यरूपेण किरणद्वारा जलान्यापीय धारयति काले वर्षति च, वह्निः अग्निस्वरूपस्तपति, हिरण्मयः सुवर्णमयः, च पुनः, अन्तरात्मा सर्वस्यान्तरधिष्ठाता, देवयान: देवमार्गः, एतेन आत्मना, स्तम्भिता एकत्र व्यवस्थिता अचल: तथास्थितेति यावत् , सुभगा सुश्रीका, का सेन्याकाङ्क्षायामाह-द्यौः स्वर्लोकः, नभश्च तारानक्षत्रावस्थानलक्षणकाशलोकः, च पुनः, गुरू अत्यन्त गुरूभूता, उर्वी भृर्लोकः, च पुन:, सप्त सप्तसङ्ख्याक':, भोमयादला भयङ्कर गधजन्म पास्त ल-वितला दिलोकाः सागरा वा // 20 // मनः सोमः सविता चक्षुरस्य घ्राणं प्राणो मुखमस्याज्यपिवः /