________________ 242 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / पदार्थाः, तस्या अध्यक्षः अधिपतिरधिष्टानत्वादात्मैव, स आत्मा, विश्वयोनिः विश्वस्य जगतः कारणम् , पुरुषः पुरुषः आनन्दमय-विज्ञानमय-मनोमय-प्राणम. यान्नमय कोशपञ्चकलक्षणपुरि शेत इति, नैकवर्णः कार्यस्य सत्त्वादित्रिगुणात्मकमायासजातीयस्यानेकवर्णत्वात् तदाह्यासिकतादात्म्यवद् आत्मनोऽपि कारणस्य चित्रवर्णत्वमिति नैकवर्णः-एकवर्णो न भवति किन्तु चित्रवर्ण इत्यर्थः // 17 // एतत्पुरुषाधिष्ठितमायाजालनिमग्ना जीवाः पशवोऽभिमानाख्यकण्टकैः परिपीडिता भवन्तीत्याह तेनैवैतद् विततं ब्रह्मजालं दुराचरं दृष्टयुपसर्गपाशम् / अस्मिन् मग्ना मानवा मानशल्यै विवेष्यन्ते पशवो जायमानाः // 18 // तेनैवैतदिति / तैनैव अनन्तरोपवर्णितपुरुषेणैव, एतत् परिदृश्यमानं ब्रह्मजालं मायालक्षण जालं ब्रह्मप्रेरितत्वात् तन्नाम्ना व्यपदिष्टम् , विततं विस्तारितं, ब्रह्मजालं विशनष्टि-दुराचरं दुःखेनाचारणं यत्र तद्दराचर, दृष्टयुपसर्गपाशम् दृष्टौ ब्रह्मदर्शनस्य य उपसर्गः असत्त्वापादकाभानापादकावरणलक्षणो विघ्नः स एव पाशो बन्धनं यत्र तदृष्टयुपसर्गपाशम्, अस्मिन् मग्नाः ब्रह्मजाले मग्नाः प्रविष्टाः, जायमानाः उत्पद्यमानाः, पशवः अज्ञानिनः जन्तवः, मानवा मनुष्याः, 'मानदाल्यैः' इत्यस्य स्थाने 'माननामानशल्यैः' इति पाठो युक्तः। मानना माननं मानना स्वमन्तव्य मानाः ममेदं दर्शन मम पुत्रः, मम कलत्रमित्यादि ममत्वाभिमाना त एव तज्जालान्तःप्रविष्टस्तस्य शल्यानि कण्टकास्तजनितसुख-दुःखादिलक्षणकण्टकैः, विवेष्यन्ते विविध्यन्ते इत्यर्थः // 18 // पुनरेनमात्मानं स्तौतिअयमेवान्तश्चरति देवताना मस्मिन् देवा अधि विश्वे निषेदुः।