________________ दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका। 241 शतशाखाप्रशाखः लम्, एतावता तत्तल्लोक-तदवान्तरलोकसमष्टिरूपत्वेनातिमहद्रूपत्वमस्य ख्यापितम्, यत्तदोनित्यसम्बन्धात् कं तमनश्वत्थमामनन्ति ऋषय इत्याकाङ्क्षानिवृत्तिये त्वाह-यस्मिन् आत्मनि, प्रजानां भू-जलाधखिलकार्याणां, बीजं परिणामि कारणम्, विश्वं कारणे कार्योपचाराद् विश्वकारण सत्त्वरजस्तमोगुणरूपमज्ञानं मायाऽविद्यादिशब्दव्यपदेश्यम् , ओतम् उदामित्यर्थः // 16 // यज्ञे इज्यमानो यज्ञपुरुषः तदङ्गमन्त्रादिरप्यात्मवेत्याहस गीयते वीयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्-यजुः-सामशाखः / अधःशयो वितताङ्गो गुहाध्यक्षः __ स विश्वयोनिः पुरुषो नैकवर्णः // 17 // स गोयत इति / स आत्मा, अध्वरेषु यज्ञेषु, गीयते तत्तदधिष्ठातृदेवैस्तावकमन्त्रैः स्तूयते, इन्द्राग्नि-वरुणादिशब्दघटितमन्त्रव्यपदेश्यो ब्रह्मात्मैव, च पुनः, वीयते तत्तद्यज्ञान्तर्गत होतव्यहोमादिरूपेण विभक्तभावेन इयन्ते व्याप्नोति, स एव मन्त्रान्तरात्मा तत्तन्मन्त्राणामन्तरात्मा अधिष्ठाता, अत एव ऋगयजुः-सामशाखः ऋग्वेद-यजुर्वेद-सामवेदानां शाखा भागा: प्रतिपादकतया यस्य स ऋग्रतुःसामशाखः, यथा पुर:स्थितो वृक्षः शाखभिः ज्ञायते तथाऽयमात्माऽयन्त गूढो ऋग्वेदादिभागायत इति युक्तं ऋग यजुः सामशाख इति, अधाशयः शतशाखप्रशाखसंसारवृक्षाच्छन्न प्रदेशे मूढेरज्ञातः सन् स्वन्निवाव तिष्ठत इति अधःशयः, यदा सुप्तः सन्न किञ्चिच्चेष्टते तदाऽस्याङ्गान्य सङ्कुचितानि भवन्ति एवं सत्यमेव प्रसुप्त इति विज्ञायत इति / वितताङ्गः आत्मनः सच्चिदानन्दस्वरूपाण्येवाङ्गानि तान्यपरिच्छिन्नत्वाद् विस्तानि विस्तृतानीति अङ्गानि यस्य स वितताङ्गः, अथवाऽस्यैव चेतन्यानन्दमात्राभुवो जीवन्तो जीवा अङ्गानि अवयवाः तानि च यथायथं. सर्वत्रैव व्याप्तानीति वितताङ्गत्वं तस्य, तस्मिन् सुप्ते सर्वे जीवाः सुप्ता एवेति, गुहाऽध्यक्षः संसारवृक्षस्य गुहा माया तत्रैव सन्निविष्टाः सर्वेऽपि