________________ 240 दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / तस्यैवेति / तस्यैव आत्मन एव सम्बन्धिन्या, कामधेनोः मायास्वरूपकामधेनोः, यदा यदा दुग्धं कामयन्ते दुग्धपानेच्छवस्तदा तदा दुग्धं ददाति कामधेनुः न तत्र वेलानियमः तथा मायाऽपि द्वै तदुरधं जीवेश्वरस्वरूपवासाय दुग्ध ददातीति भवति सा ब्रह्मणः कामधेनुः, तस्या एताः परिदृश्यमानाः, रश्मयः बन्धनरज्ज्वाः तेजोमात्राः जीवेश्वरादिलक्षणाः, याः रश्मयः, अदुहानाः दोहनव्यापारानाकलिता अपि,-पाप्मानं सुकृता-दुःकृतलक्षणं कर्मदुग्धं, क्षरन्ति निपातयन्ति, येन पापात्मतां दुग्धेन, आध्याता . सृष्टिविषयकसंकल्पविषयीभूताः तत्पानपरितृप्ताः, पञ्चजनाः मनुष्याः, स्वपन्ति सुप्ता इव भवन्ति, प्रोबुद्धास्ते द्वैतदुग्धपानया तृप्त्यपगमे तत्त्वज्ञानित्वे, स्वं स्वस्वरूपं चैतन्यं, परिवर्तमानाः परितः सर्वतो वर्तमाना आस्वादयन्तः स्वस्वरूपावाप्तिकृतार्था भवन्तीत्यर्थः // 15 // ब्रह्मात्मानमेव विशिष्य प्रपञ्चयति तमेवाश्वत्थमृषयो वामनन्ति ___ हिरण्मयं व्यस्तसहस्रशीर्षम् / मनःशयं शतशाखप्रशाख यस्मिन् बीजं विश्वमोतं प्रजानाम् // 16 // तमेवेति / तमेव आत्मानमेव, अश्वत्थं अश्वत्थो वृक्षविशेषस्तत्स्वरूपम् , "ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्" इति गीतावचनव्याख्यायां न श्वोऽपि स्थानेति ब्युत्पत्त्याऽश्वत्थपदेन संसारवृक्षस्य ग्रहणेनात्राप्यश्वत्थपदेन संसारवृक्षस्यैव ग्रहणं, संसारवृक्षश्चात्मनो विवर्त इति तस्यात्मसत्तातिरिक्तसत्ताकत्वाभावात् तेन सहात्मनस्तादात्म्याध्यासात् तद्रूपत्वमात्मनः, ऋषयः मुनयः, वामनन्ति वोपपदाद् विशेषरूपार्थपरत्वाद् विशेषेणामनन्ति मननं चात्र निदिध्यासनं, कीदृशमश्वत्थं ध्यायन्तीत्यत आह-हिरण्मयं सुवर्णमयम्, व्यस्तसहस्रशीर्षम् ब्यस्तानि अन्योऽन्यमिश्रितानि सहस्रशीर्षाणि सहस्रसंख्यकमस्तकानि यस्य स व्यस्तसहस्र. शीर्षस्तम्, वृक्षस्योपरितनावयवप्रदेश एव मूर्धा, स चोर्ध्व लोकादिः, ईदृशमश्वत्थं निश्चलमनसैवाधिगम्यमित्याह-मनःशयं मनसि शेत इवेति मनसि निश्चलवद् व्यवस्थितम्, पुनः कीदृशं शतशाखप्रशाख शतं शाखाः प्रशाखाश्च यस्य स