________________ दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / 239 ईहते चेष्टते, ( 'नोतुकामा' इति प्रकृतपाठादरे च-यस्मिन् मृत्युन ईहते, तुरप्यर्थे, नोतुकामा कामा वित्तषणा यस्मिन् नो नेत्यर्थः ) स सः तत्त्वमसीति वाक्यस्थतच्छब्दप्रतिपाद्य आत्मा, अक्षरः अविनाशी, परमं यस्मात् परतरं नान्यदित्यत्युत्कृष्टं ब्रह्म शुद्धचैतन्यम् , वेधं वेदान्तगम्यम् // 13 // सूचीसंवीयमानतन्तुसमूहैकतावज्जन्तुसमूहब्रह्मणि जन्तूनां हूयमानत्वं ब्रह्मणः सर्वेश्वरत्वं च दर्शयति-- ओतप्रोताः पशवो येन सर्वे / ओतः प्रोतः पशुभिश्चैष सर्वैः / सर्वे चेमे पशवस्तस्य होम्यं __ तेषां चायमीश्वरः संवरेण्यः // 14 // ओतप्रोता इति / “येन सर्वे पशवः ओतप्रोताः एष च सर्वैः पशुभिरोतः प्रोतः, तस्य च सर्वे इमे पशवो होम्यम् अयं च तेषामीश्वरः संवरेण्यः' इत्यन्वयः / येन ब्रह्मणा, सर्वे निखिलाः, पशवः अज्ञानित्वेन पशुप्राया जीवाः, ओतप्रोताः एकयैव सूच्या सीव्यमानतन्तुसमूहवत् परस्पराविभक्तस्वरूपाः, एष च आत्मा पुनः, सर्वैः पशुभिः जीवैः, ओतः प्रोतः अधिष्ठानत्वेनाभिव्याप्तः, तस्य आत्मनः, च पुनः, सर्वे इमे पशवः परिदृश्यमानाः सर्वेऽपि जीवाः, होम्यं तत्त्वज्ञानाग्नौ हविरिव होम्यम्, अयं च अयमात्मा पुनः, तेषां पशूनाम् , ईश्वरः कर्तुमकर्तुमन्यथाकर्तुमीष्टे, संवरेण्यः सर्वैरेवपूज्यतमः // 14 // - तस्यात्मन उत्कर्ष भावयतितस्यैवैता रश्मयः कामधेनो र्याः पाप्मानमदुहानाः क्षरन्ति / येनाध्याता पञ्चजनाः स्वपन्ति प्रोबुद्धास्ते स्वं परिवर्तमानाः // 15 //