________________ 238 दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / मोक्षमानन्दैकस्वभावम्, ऋषयः मुनयः, स्वादयन्ति तदेकतामाप्नुवन्तीत्यर्थः, स एवायमात्मेत्यर्थः // 12 // धर्ममात्रासम्भवमात्मनो दर्शयति-- विद्याविद्ये यत्र नो संभवेते यन्नासन्नं नो दवीयो न गम्यम् / यस्मिन् मृत्युर्नेहते नोतुकामा स सोऽक्षरः परमं ब्रह्म वेद्यम् // 13 // विद्याविद्ये इति / “यत्र विद्याविद्ये नो संभवेते, यत् आसन्नं न, दवीयो नो, गम्यं न, यस्मिन् नोतुकामा मृत्युर्नेहते स स अक्षरः परमं ब्रह्म वेद्यम्" इत्यन्वयः / यत्र शुद्धचैतन्यस्वरूपे ब्रह्मणि, विद्याविद्ये विद्या च अविद्या च विद्याविद्य तत्र विद्या तत्तदाकारावच्छिन्नचेतन्यलक्षणं ज्ञानं, अविद्या अज्ञानं मायेति, ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षितेतिवचनादखण्डचैतन्यलक्षणब्रह्माकारान्तःकरणवृत्त्यवच्छिन्नचैतन्यलक्षणं ज्ञानं यद्यपि भवति तथापि तत्तादात्म्यलक्षणफलसम्बन्धस्तत्र नेष्यते, फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निगकृतमितिवचनात् , अविद्याऽपि जगदुपादनमायालक्षणा ब्रह्मणि समाश्रितेव, "आश्रयत्वविषयत्वभागिनी निविभागचितिरेव केवला / पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः // 1 // बहु निगद्य किमत्र वदाम्यहं श्रुणुत सङ्ग्रहमदयशासने / सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाम् // 2 // " इतिसंक्षेपशारीरकवचनाभ्यां ब्रह्मण्यज्ञानस्य व्यवस्थापनात् , तथापि तत्कार्यजाड्यादब्रह्मण्यभावात् सम्बन्धेनाविद्या ब्रह्मणि नास्तीति, नो नैव, संभवते संभवतः, यत् ब्रह्म, आसन्नं समीपति, न, यद् यदधिकरणदेशेन वर्तते किन्तु तद्देशाव्यवहितदेशे वर्तते तत् तत् समीपवत्तिं भवति, ब्रह्म तु व्यापकं नैवम्भूतमित्यर्थः / नो नैव, दवीयः विप्रकृष्टदेशवर्ति, व्यापकत्वादेव, न नैव, गम्यं गमनक्रियाजन्यसंयोगवत् , यस्मिन् ब्रह्मणि, 'नोतुकामा' इत्यस्य स्थाने 'न तु कामः' इति पाठो युक्तः / पञ्चत्वभावप्रापणेच्छुरिति तदर्थः / मृत्युर्यमः, न नैव,