________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 237 मिन्द्रः तयोरक्यभावना पूर्ववत् , ब्रह्मा प्रजापतिः, कोटः सूक्ष्मजन्तुः, तयोरपि पूर्ववदभेदाद् ब्रह्मकीट इत्युपपद्यते, शङ्करः सदाशिवः तमोगुणप्रधानमायावच्छिन्नचैतन्यरूपः, तार्क्ष्यकेतुः गरुडध्वजो विष्णुः सत्त्वगुणप्रधानमायावच्छिन्नचैतन्यरूपः तयोरपि विशिष्टचैतन्यरूपयोः सतः वेदान्तिनो यत् समीहितं तदाह-सर्व इत्यादि / अयमात्मा, सर्वः सर्वपदार्थस्वरूपः, सर्व वह्नि-रवि-जलं वायुरपि वाह्निरित्यादिप्रत्येकात्मना निखिलं प्रत्येकस्वरूपं, सर्वथा सर्वप्रकारेण सर्वस्यापि प्रकारस्य ब्रह्मणि कल्पितस्य ब्रह्मरूपाधिष्ठानसत्ताकत्वाभावात्, सर्वतः सर्वस्मात् कारणात् येन कारणेन यदुत्पद्यते तत्कारणमपि ब्रह्माभिन्नमिति सर्व कार्यकारणस्वरूपमिति सर्वस्मात् सर्व भवतीति नियूढम् / श्वेताश्वतरोपनिषदि "तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः / तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः // 402 // " इत्यादिरीत्या ब्रह्मगः सर्वात्मकत्वमुक्तम् , तदिह विरोधाभासेन वर्णितम् // 11 // सर्वे जीवा ब्रह्मण्येव समर्पितःस्तत एव सुख-दुःखमनुभवन्ति ब्रह्मज्ञानादेव ऋषयोऽमृतत्वमानन्दसुखमुपभुञ्जते इत्याह स एवायं निभृता येन सत्त्वाः शश्वदुःखादुःखमेवापियन्ति / स एवायमृषयो यं विदित्वा ___ व्यतीत्य नाकममृतं स्वादयन्ति // 12 // स एवायमिति / "येन निभृताः सत्त्वाः शश्वदुःखा दु खमेवापियन्ति स एवायं, यं विदित्वा नाकं व्यतीत्यामृतं ऋषयः स्वादयन्ति" इत्यन्वयः / येन यावत्, सत्त्वाः प्राणिनः, शश्वत् सार्वदिक्कं, दुःखादुःखमेव दुःख च भदुःखं चानयोः समाहारो दुःखादुःखम् एवम् , अपियन्ति आप्नुवन्ति, तस्यैवात्मनश्चिन्मात्रामासाय सुख दु:खे अनुभवन्तीति यावत् / ('शश्वदुःखाः सततं दुःखपूर्णाऽपि दुःखमेवापि यन्ति' इत्येवं सम्बन्ध इति केचित्) स एवायम् आत्मा, तथा यं ब्रह्मात्मानं, विदित्वा ज्ञात्वा, नाकं स्वर्ग, व्यतीत्य अतिक्रम्य, अमृतं