________________ 236 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिशिका। ब्रह्म-शङ्कर-विष्णुमूर्तीः कल्पयन्तः-कल्पनां कुर्वन्तः तक्तन्मताभिमानिनो भवन्ति, शातश्चायं तत्त्वमसि इति वाक्यजन्यनिर्विकल्पज्ञानविषयोऽयम्, ततश्च मायाया अत्यन्तोच्छेदात् तत्पूजकस्याप्यभावाद् , भूयः पुनः, न च नैव, नमः नमस्कारः, अस्ति विद्यते मायाकल्पितपदार्थस्य मायापगमेऽभावात् , जीवेश्वरादीनां मायाकल्पितत्वमुक्तं पञ्चदश्याम "मायाख्यायाः कामये नो वत्सौ जीवेश्वरावुभौ / यथेच्छं पिबतां द्वैतं तत्त्वं तद् द्वैतमेव हि // 2 // " इति / 'नमोऽस्ति' इत्यस्य स्थाने 'तमोऽस्ति' इति पाठः सम्भाव्यते। आत्मा ज्ञातो यदा तदाऽऽत्मज्ञानानन्तरं, भूयः पुनरपि, तमः मायास्वरूपोऽन्धकारः, नास्ति न विद्यते इत्यर्थः // 10 // सर्वे परस्परविरुद्धा अपि पदार्था आत्मन्येवाव्यतिरिक्ततयाऽवतिष्ठन्ते इत्याहआपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् / ब्रह्मा कीटः शङ्करस्ताक्ष्यकेतुः सर्वः सर्व सर्वथा सर्वतोऽयम् // 11 // आप इति / आपो जलानि, वह्निः तेजः, तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमाद् बाह्यभिन्मात्मा भिन्नानां जलानां बाह्यभिन्नत्वमिति, आपो वह्रिरित्युपपद्यते, मातरिश्वा मातरि अन्तरिक्षे शवति-गच्छति इति व्युत्पत्त्याऽन्तरिक्षचरो मेघसंचारको वायुरनेनोच्यते / हुताशः यज्ञादिगतहुतभुक्, तयोश्च व्यवहारे परस्परविरुद्धत्वं मातरिश्वना संचारितेषु मेघेषु सत्सु चातुर्मास्यां यज्ञाद्यप्रवृत्तेरित्याशयेनैव हुताशपदेन पुनर्वह्निपदेन वायुः हुताशः यज्ञोपवह्निः वहन्यभिन्नात्मा, भिन्नस्य वायोर्वह्नेरभिन्नत्वमिति मातरिश्वा हुताश इत्युपपद्यते, सत्यं पारमार्थिकं, मिथ्या काल्पनिकम्, ब्रह्मण एव शुद्धचैतन्यरूपत्वेन सत्यत्वं, मायाकल्पेन मातृतादिविशिष्टत्वेन मिथ्यात्वमित्येकस्यैवात्मनः सत्य-मिथ्योभयरूपत्वात् सत्यं मिथ्येत्युपपद्यते, वसुधा पृथ्वी, मेघयानम् आकाश