________________ दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / 235 निर्विकल्पज्ञान विषयीकियते, ज्ञानविद्भिः सविकल्पक-निर्विकल्पकज्ञानभेदाभिज्ञैः 'ज्ञानविद्भिः' इति पाठे-निदिध्यासनमार्गेणोत्पन्नतत्त्वं पदार्थसाक्षात्कारैरित्यर्थः, बन्धातीतः बन्धरहितः अपि शुद्धचैतन्यस्य वास्तविकबन्धासम्भवात्, बध्यते व्यावहारिकबन्धकर्म भवति, “तत्सृष्ट्वा तदेवानुप्राविशत् / " (तै 0 उ० 2 / 6) इति श्रुत्या संसारप्रविष्टत्वबन्धनकर्मवमुपपन्नम् कल्लेशपाशैः कल्लेशलक्षणकर्मबन्धनरज्जुभिः, मोक्षातीतः यस्य बन्धः तस्यैव बन्धापगमलक्षणमोक्षो भवति शुद्धचैतन्यलक्षणः आत्मा तु न कदाचिदपि बद्ध इति वस्तुतो मोक्षरहितः अपि, मुच्यते मुक्तो भवति, निर्विकल्पः विकल्परहितः / उक्तं च पञ्चदश्याम् 'बन्ध-मोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् / इति चेन्न यतो माया व्यवस्थापयितुं क्षमा // 1 // दुघर्ट घटयामीति विरुद्ध किं न पश्यसि / वास्तवौ बन्ध-मोक्षौ तु श्रुतिर्न सहतेतराम् // 2 // ज्ञाननिरोधो न चोत्तत्तिर्न वद्धो न च साधकः / न मुमुक्षुनै वै मुक्त इत्येषा परमार्थता // 3 / / इति // 9 // शुद्धचैतन्यस्य ब्रह्मणो निर्गुणस्य न ब्रह्मादिचैतन्यरूपत्वं सगुणस्य तु चैतन्यस्य मायोपाधिविशिष्टस्य गुणभेदेन ब्रह्मादित्रयरूपत्वं सगुणोपासनार्थं मूढास्तस्य प्रतिमाः कल्पयन्ति वस्तुतोऽप्रतिम एवायमिति दर्शयति नायं ब्रह्मा न कपर्दी न विष्णु ब्रह्मा चायं शङ्करश्वाच्युतश्च / / अस्मिन् मूढाः प्रतिमाः कल्पयन्ते ज्ञातश्चायं न च भूयो नमोऽस्ति // 10 // नायमिति / अयम् आत्मा नैर्गुण्यविवक्षायां, न ब्रह्मा रजोगुणप्रधानमायावच्छिन्नचैतन्यरूपो न, न कपर्दी तमोगुणप्रधानमायावंच्छिन्नचैतन्यस्वरूपो न, न विष्णुः सत्त्वगुणप्रधानमायावच्छिन्नचैतन्यस्वरूपो न, सगुणात्मविवक्षायां पुनः अयं ब्रह्मा शङ्करोऽच्युतश्च, अस्मिन् आत्मनि, मूढाः अज्ञानिनः, प्रतिमा: